________________ [13. अभिधर्मदीपे [13] सत्त्वज्ञप्त्युपादानं मौलं षड्धातवो मताः। प्रोक्तास्तभेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते // एते हि षड्धातवो गर्भावक्रान्तिकाले मौलं सत्त्वद्रव्यप्रज्ञप्त्युपादानम् / ' कथम् ? यस्मादयं कायाख्यः समुच्छ्रायः पृथिवीधातुना खक्खटलक्षणेन सन्धारितो भूतान्तरवृत्त्युद्रेकोऽस्थिस्नायुनखदन्तरोमादिसंचयः। अब्धातुना द्रवस्नेहलक्षणेन श्लेष्मरुधिरादिमयेनाभिष्यन्दितसंश्लेषित भूतान्तरः। तेजोधातुनोष्णस्वभावेन परिपाचितक्लेददौर्गन्धः। वायुना च प्रेरणात्मकेन संचारितभोजनरसधातुविमत्रश्लेष्मपित्तसंचयः / नभोधातुना च मुखनासिकाकर्णादिच्छिद्रजनितभोजनपाणा(ना)दिप्रवेशनिष्क्रमणक्रियः / विज्ञानधातुना वस्तूपलब्धिलक्षणेन वायुधातुक्रिया-. ध्यासिनोत्पादितसंजनिताङ्गप्रत्यङ्गचेष्टो मौलं सत्त्वद्रव्यमित्युपचर्यते / इन्द्रियानि (णि) चक्षुरादीनि खल्वत्र भूतग्रहणेन गृह्यन्ते, चैतसिका विज्ञानग्रहणेनेति प्राधान्याद् भूतचित्तग्रहणम् / किमर्थं पुण (न) रेत एव धातुषट्कमुपदिष्टम् ? यस्मादस्य भेदात् 'अस्मिमानो निवर्तते / कथम् ? षड्धातुप्रभेदादात्मदृष्टिनिरासः / तन्निरासादस्मिमानसमुद्धातः / / 'सत्कायदृष्टिपुष्टत्वात्' इत्यत्र पुणः (नः) [14] क्लिष्टमेव हि विज्ञानं विज्ञानधातुरभिप्रेतम् / कस्मात् ? [द्रष्टव्यं] जन्मणि (नि)श्रयात् / यस्मादेते षड्धातवो जन्मनो निश्रयभूतास्तस्मात् / 'क्लिष्टमेव विज्ञानं' [I. A, 3. Fol. 32 b.] अत्र द्रष्टव्यम् / / 1cf. छन्नं भिक्खवे धातूनं उपादाय गब्भस्सावक्कन्ति होति / Ang. I. p. 176. This is a part of a karika of the last portion of the Ad. 3 . विज्ञानधातुविज्ञानं सास्रवं जन्मनिश्रयाः। Ah. I. 28 cd; also cf. यो नामरूपमभिनिवर्तयति नडकलापयोगेन पञ्चविज्ञानसंप्रयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते विज्ञानधातुः / siksa. p. 221.