________________ 12.] प्रथमोऽध्यायः / किं पुनस्तेषामेकैकस्य प्रमान(ण)म् ? ब्रूमः / अत्राचार्याणां भेदंगता बुद्धयः / केचिदाहुः [12] धर्मस्कन्धप्रमानं (णं)तु सत्यादेरेकश : कथा / ' सत्यध्यानसमाधिसमापत्तिविमोक्षप्रतीत्यसमुत्पादस्कन्धादीनामेकशः कथा धर्मस्कन्धः / *रागादिचरितप्रतिपक्षो धर्मस्कन्ध इत्याचार्यकम् / तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः / / येषां तावद्वाक्स्वभाव बुद्धवचनं तेषामशीतिधर्मस्कन्धसहस्राणि रूपस्कन्धकदेशेन संगहीतानि / येषां पुनर्णा ( ) मस्वभावं तेषां संस्कारस्कन्धसंगृहीतानि / अयं स्वागम:--"जीवतो भगवतो वाङ्नाम स्वभावं बुद्धवचनं गौणमुख्यन्यायेन / परिणि (नि)व॒तस्य तु नामस्वभावमेव, न वाक्स्वभावम्, ब्रह्मस्वरत्वान्मुनीन्द्रस्य, लोकवाचां तत्सादृश्यानुपपत्तेः / / " कस्मात्पुनरेते षड् धातवः पृथगुच्यन्ते ? यस्मादेते वारभाजनं एको धम्मक्खन्धो। विनये अस्थि वधु, अस्थि मातिका, अस्थि पदभाजनियं, अस्थि आपत्ति, अत्थि अनापत्ति, अत्थि अन्तरापत्ति, अत्थि तिकच्छेदो। तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धो ति. वेदितब्बो। एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि / Dhs A, I. 67. See LVPAR. I. p. 46. 1.Cf, शास्त्रप्रमाण इत्येके एके तावदाहुः / धर्मस्कन्धसंज्ञकस्यैव अभिधर्मशास्त्रस्य प्रमाणमिति / तच्च षट्सहस्राणि / अपरे पुनराहुः स्कन्धादीनां कथैकशः / स्कन्धायतनधातुप्रतीत्यसमुत्पाद अरणादीनां कथा प्रत्येकं धर्मस्कन्ध इति / चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः॥ . एवं तु वर्णयन्ति / अशीतिचरितसहस्राणि सत्त्वानाम् / रागद्वेषमोहमानादिचरितभेदात् / तेषां प्रतिपक्षेण भगवताऽशीतिधर्मस्कन्धसहस्राण्युक्तानि / Akb. I. 26. - 2 येषां वाक्स्वभावं बुद्धवचनमिति / येषां सौत्रान्तिकानां वाग्विज्ञप्तिस्वभावं तेषां तानि रूपस्कन्धसंगृहीतानि / येषां निकायान्तरीयाणां चित्तविप्रयुक्तं नामास्ति तेषां संस्कारस्कन्धेन संगृहीतानि / संस्कारस्कन्धसंगृहीतत्वान्नाम्नः। अभिधार्मिकाणां तूभयस्वभावमिष्टम् ।...चतुरशीतिधर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः। Saks p52. The last line obviously refers to the Pali tradition quoted above.