SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 19.1 . प्रथमोऽध्यायः / क्षणपरमांनु (णु) जातिसंख्यानां प्रत्येकं यथायोगं संग्रहो वेदितव्यः / कस्मात् ? स्वात्मना नित्यमवियोगात् तस्माद् द्रव्यात्मसंग्रहः / सच्छब्दनिमित्तं हि सतो भावः सत्ता द्रव्यं प्रकृत्यर्थः / द्रव्यात्मसंग्रहः प्रत्ययार्थ[:], सत्कृ (क्रि)या वोपचारसत्तारूपा / वैशि (शेषि)कसत्ता तु नोभयमर्थान्तरत्वात् / न ह्यर्थान्तरं स्वात्मोपपद्यते / किञ्च, स्वातन्त्र्यात् / निरुक्त्यपभ्रंशाच्च / नहि घटेन सत्तोत्पाद्यते / आवरणाभावात्तनि(न)त्यत्वाभ्युपगमाच्च / निरुक्त्यपि भ्रश्यते-सत्तायोगात्सन्ती[ति] / स्यान्माल्यादिवत्सतावान्वा क्रियावदिति / यस्त्वयं संग्रवस्त्वादिषु संग्रहः प्रोक्तः स कादाचित्कत्वाद् गौणो मन्तव्यो न मुख्यः / / संप्रयोगस्तु समत्वं चित्तचेतसाम् // पञ्चभिः समालम्बने प्रयुज्यन्त इति / सम्प्रयुक्ताश्चित्तचैतसा एव धर्मा * नान्य इति // ' .. अथ य एते सूत्रान्तरेषु स्कन्धायतनधातुसंशब्दिता धर्माः श्रूयन्ते ते किमेष्वेव संग्रहं गच्छन्ति, आहोस्विन्नेति ? अत्रोच्यते। [9] तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् / ब्रू याच्छास्त्रनयाभिज्ञो बुद्धयापेक्ष्य स्वलक्ष[णम् // तत्र तावच्छीलस्कन्धादीनां पञ्चानां स्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः। शेषाः संस्कारस्कन्धेन / दश कृत्स्नायतनान्यप्यलोभस्वाभाव्यादष्टानां धर्मायतनेन। सपरिवाणाणि तु मनोधर्मायतनाभ्यां पञ्चस्कन्धस्वनाम होति / तत्थ यस्मा दामादीहि बलिवहादयो विय केचि धम्मा केहिचि घम्मेहि सङ्गहीता नाम नत्थि, तस्मा “नथि केचि धम्मा केहिचि धम्मेहि सङ्गहीता, एवं सन्ते 'एकविधेन रूपसङ्गहो' ति आदि निरत्थक" ति येसं लद्धि, सेय्यथापि राजगिरिकानञ्च, सिद्धत्यिकानञ्च / Ko A, VII. 1. For sangraha, see Asm. p. 32. . 1 See Asm. p. 33. For a controversy on samprayoga, see Kv. vii. 2 2 Cf. तथान्येऽपि यथायोगे स्कन्धायतनधातवः। प्रतिपाद्या यथोक्तेषु सम्प्रधायं स्वलक्षणम् || AK. I. 27. See Vm. xv. 25. 3 शील-समाधि-प्रज्ञा-विमुक्ति-ज्ञानदर्शनानि / .4 पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि /
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy