________________ अभिधर्मदीपे [7. .: स्वविषयालम्बनक्रियापेक्षया विज्ञानान्तरोत्पादनादिशक्त्यपेक्षया चैकस्य विज्ञानस्य त्रिधा निर्देशः क्रियते-'मनश्चित्तं विज्ञानं च' इत्यनागतस्यातीतस्यापि भूतभाविन्या संज्ञया व्यपदेशः। एवं सति “अष्टादशधातवस्त्रयविकाः" इत्यभिधर्मग्रन्थोऽप्यनुलोमितो भवति। सूत्रेऽपि चोक्तम्-“यत्पुनस्तद्भवति चित्तमिति वा मन इति वा" इति विस्तरः / तदेवं व्याचक्षाणेन भवता नित्यं करणं मनो 'नित्यश्चात्मा कर्ता' इति प्रतिषिद्धं भवति / अथ कस्मात्तदेव चक्षुर्विज्ञानादीनां पञ्चानामप्याश्रयत्वेन नोक्तमिति ? अत्र ब्रम :रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः / .2 चक्षुरादीनामसाधारणत्वादिति / अथ यदुक्तम्-'ससंप्रयोगा सहसंग्रहेन (ण) इति / को पुण (न) रिमौ संग्रहसंप्रयोगावित्येतदपदिश्यते / [8] स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः। तत्थेरो किर नाम दीघभाणकाभयत्थेरं हत्थे गहेत्वा आहः-पटिच्चा ति नाम आगतहाने आवज्जनं न कातब्बं, भवङ्गनिस्सितकमेव कातब्ब' ति / तस्मा इध मनो ति सहावज्जनक भवडं. मनोविज्ञाणं ति जवनविज्ञाणं। Vbh App. 81-2.. 1Cf. विज्ञाणं, चित्तं, मनो ति अत्थतो एक। Vn XIV. 82. 2 Cf....यद्यप्येवं तथापि षष्ठयाश्रयप्रसिद्धयर्थं धातवोऽण्टादश स्मृताः / - पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः। षष्ठस्य मनोविज्ञानधातोराश्रयोऽन्यो नास्ति / अतस्तदाश्रयप्रसिद्धयर्थं मनोधातुरुपादिष्टः। Akb. I. 17 cd. आश्रयादिषट्कव्यवस्थानेनाष्टादश धातवो भवन्ति / आश्रयषट्कं चक्षुरादिमनोऽन्तम् / आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तम् / योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तोप्यस्ति मनोधातुः। ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोराश्रयं कल्पयन्ति / Saks. p. 39. For the Yogachara view, See Trimsika,5. For the view af the Tamraparniya, cf. मनोधातु-मनोविज्ञाणधातूनं निस्सयलक्खणं हदयवत्थु / Vm. XIV.60. 3 Cf. सर्वसंग्रह एकेन स्कन्धेनायतनेन च। धातुना च स्वभावेन परभाववियोगतः // Ak. I. 18. For a controversy on sangraha, see Kv. VII. 1.-इदानि सङ्गहकथा