________________ 5.] . प्रथमोऽध्यायः द्वादश खल्वायतनानि / चक्षु'दीनि धर्मायतनान्तानि / ' ‘अष्टादश धातवः। चक्षुर्धा तू रूपधातुश्चक्षुर्विज्ञानधातुर्यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरिति / तत्र तावत् [4] रूपस्कन्धो हि नेत्राद्या दशायतनधातवः / धर्मसंज्ञे त्रयस्कन्धाः साऽविज्ञप्तिधंवत्रयाः / / [5] मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः / इति / कः पुनरायतनधात्वर्थः ? तदुच्यते। आयद्वारं ह्यायतनं धातु र्गोत्रं निरुच्यते / / तदुक्तं भवति-चित्तचैतसिकाख्यमायमेतानि तन्वन्तीत्यायतनानि / ' यस्मात्सप्त चित्तधात वश्च त्वारश्चारूपिणः स्कन्धा एभ्यश्चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्ति वा प्रत्यायन्ते तस्मादायतनानि / धात्वर्थस्तु गोत्रार्थः / तदुक्तं भवति–एकस्मिञ्च्छरीरपर्वतेऽष्टादश 1 द्वादसायतनानि-चक्खायतनं, सोतायतनं, घाणायतनं, जिह्वायतनं, कायायतनं, मनायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोटुब्बायतनं धम्मायतनं / Vbh. p. 70. 2 अट्ठारस धातुयो-चक्खुधातु, रूपधातु, चक्खुविचाणधातु, सोतधातु, सद्दधातु, सोतविज्ञाणधातु, घाणधातु, गन्धधातु, घाणविज्ञाणधातु, जिह्वाधातु, रसधातु, जिह्वाविआणधातु, कायधातु, फोटब्बधातु, कायविआणधातु, मनोधातु, धम्मधातु, मनोविज्ञाणधातु / Vbh. p. 87. 3 Cf. अविसेसतो पन आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनं ति दटुब्बं / Vm. xv. 4. . 4 Cf. गोत्रार्थो धात्वर्थः। यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्राणि धातव उच्यन्ते, एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादशधातव उच्यन्ते / आकरास्तत्र गोत्राण्युच्यन्ते / त इमे चक्षुरादयः कस्याकराः। स्वस्य जातेः / सभागहेतुत्वात् / असंस्कृतं तर्हि न धातुः स्यात् / चित्तचैत्तानां तहि जातिवाचकोऽयं धातुशब्द इत्यपरे / Akb. I. 20 ab. ___Cf. also, यथा लोके विचित्ता हरितालमनोसिलादयो सेलावयवा धातुयो ति वुच्चन्ति, एवमेता पि धातुयो विय धातुयो। यथा वा सरीरसङ्घातस्स समुदायस्स अवयवभूतेसु