________________ अभिधर्मदीपे [6. धर्मगोत्रानि (णि)- इति / " ध्र वं(व) द्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते / आकाशं च सर्वभूतभौमिकरूपाधारमिति तदप्यत्रास्तीति / स्वलक्षणधारणाद्वा तद्धातुत्वम् / ' अथ कस्माद्वादशायतनान्यष्टादश च धातवः पृथनिरुच्यन्ते ? नत्व(न्व)न्यतरणि (नि)र्देशाद्गतार्थमेतदिति / अत्रोच्यते / [6] योगरूप्यानुकूल्यादेदिशा यतनी मुनिः। बुद्धचायेकत्वधीहान्य धातूंश्चाष्टादशोक्तवान् / / स्कन्धेषु हि दृश्यमानेषु योगिनोरसर्वज्ञेयप्रतिविम्बकान्युपतिष्ठन्ति / धातुष्वपि सप्तचित्तधातुप्रतिबिम्बकानि सादृश्याद् दुरवधाराणि भवन्ति / धातुस्कन्धव्यवस्था चायतनेषूक्तेष्वभिहितकारणा भवन्ति सुलक्षा चेति धातुदेश - ना। तदूर्व स्कन्धप्रज्ञप्तिः। यथोक्तम्-"चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम् / त्रयाणां सन्निपातात् स्पर्शः। सहजा वेदना चेति (त)ना" इति / तस्मादायतनानि धातूनां योनिः, धातवः स्कन्धानामिति / 'बुद्धयादे(ये)कत्वधीहान्य धातूंश्चाष्टादशोक्तवान् / ' सप्त विज्ञानधातवो हि देश्यमाना [I. A, 1. Fol. 31b.]1 बुद्ध्यैकत्वग्राहं निवर्तयन्ति / पिण्डे. कात्मग्राहं च निवर्तयन्ति / वैभाषाः पुनराहुः- “रूपसंमूढानामायतनदेशना। चित्तचे (च) त्तसंमूढानां स्कन्धदेशना। रूपचित्तसंमूढानां धातुदेशना। तीक्ष्णेन्द्रियानां (णां) वा स्कन्धदेशना / मध्येन्द्रियाना (णा) मायतनदेशना / मृद्विन्द्रियानां (णां) धातुदेशना / एवं संक्षिप्तम प्यविस्तररुचीनाम् / " . अथवा 'बुद्ध्यकत्वादिधीहान्य धातूंश्चाष्टादशोक्तवान् / ' ये खलु बुद्ध्यैरससोणितादिसु धातुसमा, एवमेतेसु पि पञ्चक्खन्धसङ्घातस्स अत्तभावस्स अवयवेसु धातुसमा वेदितब्बा / Vm. xv. 21. 1cf. अपि च, यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता। एता पन, अत्तनो सभावं धारेन्तीति धातुयो। Ibid. 2 Cf. मोहेन्द्रियरुचित्रेधात्तिस्रः स्कन्धादिदेशनाः // Aks. I. 20 cd. 3 Cf. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खविाणं / तिण्णं संगति फस्सो / फस्सपच्चया वेदना..... I S. II. p. 72. 4 SeeLVPAR. I. p. 40.