________________ अभिधर्मदीपे [2. शक्तो मार्गमाख्यातुमिति / न चासम्यक्संबुद्धः सर्वधर्मानभिसंबोधुमलमिति / कथं पुण (न) रेत [Fol. 2-30 lost]' ___ [I. B. 2. Fol. 31a] 'दिगात्मानो वैशेषिकपरिकल्पिता असत्त्वादेव नैव नित्याः नानित्याः / असत्त्वं पूर्वमा [वि]ष्कृतम् / सांख्यीयमपि प्रधानं न नित्यम् / कुतः ? वैगुण्यस्य [2] सत्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते / - तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः // . यदि सत्त्वादयो [गुणाः] नान्यथा भवन्ति ह्रासवृद्धिभावेन, न तर्हि किञ्चित्तेभ्यो व्यक्त मुत्पद्यते / अथान्यथा भवन्ति, अनित्यास्तहि प्राप्नुवन्ति / कर्मवशाददोष इति चेत्, अत्र ब्रूमः / [3] न कर्म स्वकतोत्सर्गात यदि प्रतिपुरुषं कर्माणि बुद्धिपूर्वाण्यबुद्धिकृतानि वा प्रधाने विद्यन्ते साधारणप्रधानकल्पनावैयर्थ्य तहि प्राप्तमिति / किञ्च, ज्ञव्यक्तात्मकता मलाः / प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः / / यदि तानि कर्माणि पुरुषात्मकानि नत्वे(न्वे)वं सति मोक्षाभावः प्राप्नोति / पुरुषनित्यत्वे कर्मणि (नि)त्य [त्व] प्रसङ्गात् / 'च'शब्दात् पुरुषकतत्वादिदोष (षा)श्च / द्वितीयेऽन्येऽप्युपप्लवाः / ' प्राधानात्मकपक्ष एते च दोषाः प्रसजन्त्यन्येऽपि चोपप्लवाः साधारणत्वादकृताभ्यागमानिर्मोक्षप्रसङ्गात् / तस्मात् त्रीण्येव च सर्वज्ञाभिहितान्यसंस्कृतानि नित्यानीति सिद्धम् / व्याख्याताः अष्टौ पदार्था:-संस्कृताः पञ्च, त्रयश्चासंस्कृताः / एतावच्चतत्सर्वं यदुत संस्कृतं चासंस्कृतं चेति / ' तच्चतदायतनधातुव्यवस्थानेन व्यवस्थाप्यते / 1 A major portion of the First chapter (Fol. 2-30) is lost. In these lost folios the Adv. has discussed the samskrta and samskyta-dharmas, as is evident from a subseqnent statement: व्याख्याता अष्टौ पदार्थाः-संस्कृताः पञ्च, त्रयश्चासंस्कृताः / The Akb. 1.2-15 also deals with the same topics. These refutations are not found in Akb. 3 See note 1. 4 Cf. राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः / AL. I. 20 ab.