________________ 1.] प्रथमोऽध्यायः तं सत्पथमं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम् // 'तम्' इति यः प्रतिविशिष्टविशेषणपरिछिन्नय च्छब्दचोदनयो (या) परिगृहीतः स तच्छब्देन पूर्वप्रकृतापेक्षोपजनितयच्छब्दसंबन्धेन संस्पृश्यते / संश्चासो पन्थाश्च सत्पथः / अथवा सतां पन्थाः सत्पथः / तं सत्पथं जानीत इति सत्पथज्ञः / 'तं सत्पथशं प्रति (णि) पत्य' इति कायवाङ्मनस्कर्मभिरभ्यर्खेत्यर्थः / 'बुद्धम्' इति विशिष्ट विशेषणपरिच्छिन्नोऽपि बुद्धानुसारिपुद्गलप्रति पत्त्यर्थं साक्षात्प्रतीतपदार्थकेन नाम्नापदिश्यते बुद्ध इति / अत्र बुद्धशब्दस्य प्रसिद्धिः बुधेरकर्मकत्वविवक्षायां कर्तरि क्तो भवति / सर्वे वा ज्ञानार्था गत्यर्था इति कर्मकर्तरि क्तविधानम् / अभिधानलक्षणत्वाच्च कृत्तद्धितसमासानामचोद्यम् / दृष्टं चेदं बुद्ध इत्यभिधानं कर्तरि लोके प्रयुज्यमानम् / तद्यथा निद्राविगमे पदार्थानबोधे ऽविद्यानिरासे च विबुद्धः प्रबुद्धो देवदत्त इति / एवं भगवानप्यविद्यानिद्राविगमात्, सर्वार्थावबोधाच्च बुद्धो विबुद्ध : प्रबुद्ध इत्युच्यते / यथा वा परिपाकविशेषात् स्वयमेव बुद्धं पद्ममेवं भगवानपि प्रज्ञादिगुणप्रकर्षपरिपाकाद् बुद्धो विबुद्धः प्रबुद्ध इति / सर्वशिष्टप्रयोगाच्च / दृष्टो पत्र शिष्टप्रयोगः / यथोक्तं व्यासेन ""एतबुद्धा (वा) भा (भ) वेद् बुद्धः किमन्यद् बुद्धलक्षणम्” इति / तस्मादशिष्टचोद्येष्वनादरः / अत्र पुणः (नः) श्लोकस्य पूर्वार्धे परार्थसंपादकं वैशारद्यद्वयं प्रदर्शितम् / तृतीये पादे स्वार्थसम्प[द् ] द्योतकं वैशारद्यद्वयमाविष्कृतम् / न ह्यक्षीणास्रवः 1 Cf. यः सर्वथा सर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार / ' तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् | Ak. I. 1 2 सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे / सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानीति सूत्रे वचनात् / Saks. p. 4. Cf. S. IV. p. 15. 3 विनयविभाषाकारास्तु चतुष्कोटिकं कुर्वन्ति / अस्ति बुद्धो न भगवान् / प्रत्येकबुद्धः स्वयंभूतत्वाद् बुद्ध इति शक्यते वक्तुम् / न तु भगवानपरिपूर्णदानादिसम्भारत्वात् / यो हि माहात्म्यवान् स भगवानुच्यते / अस्ति भगवान बुद्धश्चरमभविको बोधिसत्त्वः परिपूर्णदानादिपारमितत्वादनभिसम्बुद्धत्वाच्च / अस्त्युभयथा बुद्धो भगवान् / अस्ति नोभयथा एतानाकारान्स्थापयित्वेति / Sakv, p. 3.