________________ 570 570 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [ 16 कारिकाव्याख्यायां भाव्यभूतार्थसाधारणत्वात् / अन्यत्रामीषां तात्पर्यमिति चेत् / स्वार्थप्रतिपादनद्वारा, शब्दमात्रतया घा? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम् / तस्यार्थस्यानन्यप्रमाणकत्वात् / अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या।। तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्। - स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्य को दोषः। अन्यथा स्वर्ग: नरकयात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत / तत्राबाधनात्तथेति चेत् / तुल्यम्। न तागर्थः क्वचित् इष्ट इति चेत् / स्वर्गादयोऽपि तथा। तन्मिथ्यात्वे तदर्थिनामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत् / इहापि तदुपासनाविधानानर्थक्यप्रसङ्गः / तन्मिस्थ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपासीतेति तुल्यमिति // प्रकाशः। अन्यत्रेति / कार्ये तदन्विते च शब्दशक्तेरवधारणात् सिद्धार्थानामपि तत्रैव तात्पर्यमिति न मुख्येऽर्थे प्रामाग्यमित्यर्थः / स्वार्थेति / कार्ये तेषां तात्पर्य किं प्रतिपाद्यमानसिद्धार्थान्वयपुरस्कारेण, किं वा स्वार्थमप्रतिपायेत्यर्थः / प्रथमे इति / अबाधितं पदसमन्वयलभ्यमर्थमादायैव तेषां कार्यपरत्वात् स्वार्थेऽपि प्रामाण्यमवर्जनीयमित्यर्थः। - ज्योतिःशास्त्रवदिति। यथा ज्योतिःशास्त्रस्य वेदाङ्गस्य दर्शादिकालं स्वार्थमादायैव दर्शादियागविधौ तात्पर्य, तथा सिद्धार्थवादानामपि स्वार्थ प्रतिपादयतामेव कार्ये प्रामाण्यमित्यर्थः / अन्यथेति / यदि स्वार्थमप्रतिपाद्यैवान्यपरत्वमिति द्वितीयः कल्प इत्यर्थः / तादृश इति / वेदान्तबोध्यनित्यज्ञानादिरूप इत्यर्थः / इहापोति / ईश्वराभावे ईश्वरमुपासीतेत्यादिविधेरानर्थक्यप्र. सा इत्यर्थः / सालोक्यं-समानलोकता / सायुज्यं-सार्वश्याणिमादिकम् / श्रादिपदात सारूप्यादि / _. अत्रापीदमभिप्रेतम्-यद्यर्थापत्त्या साक्षादुपपादक एव पदानां शक्तिः, तदा घटानयनकार्यताज्ञान एव पदशक्तिप्रसङ्गः, घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनप्रवृत्त्या घटानयनकार्यताज्ञानस्यैवानुमानात् / न तु कार्यान्वितज्ञानस्य, प्रवृत्तिविशेषे तस्याहेतुत्वात् / __ अथ घटानयनक्रियायां प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमान, तेन च कार्यान्वितज्ञानमनुमाय तत्र वाक्यमात्रस्य कारणतां गृहीत्वा शक्तिं कल्पयति, तदुत्तरं विशेषयोः कार्यकारणभावप्रह इति चेत् / प्रकाशिका। कार्यान्वितज्ञान एव पदानां शक्तिरत एव परम्परया कार्यान्वयकल्पनमित्यर्थः / वेदान्तेति / अन्त. शब्दोऽत्र स्वरूपपरः, वेदान्तशब्द उपनिषत्परो वा / ननु सायुज्यं संयोगः, सच शरीरस्य परमेश्वरेण सर्वदेव आत्मनस्तु न कदापि, तथासति जीवन्मुक्तधर्मसालोक्यसमभिव्याहाराविशेषादित्यन्यथा व्याचष्टे सायुज्यं सार्वज्ञाणिमादिकमिति। सारूप्यादीति। गरुड़गदाचक्रादीत्यन्वयः / मकरन्दः। ननु सायुज्यं संयोगः, स च परमेश्वरेण शरीरस्य सर्वदा अयनसिद्ध एव, आत्मनस्तु न कदापीत्यन्यथा व्याचष्टे सायुज्यमिति। टिप्पणी। पादनद्वारा 'ईश्वरमुपासीतेत्यादिविधिवाक्येन सहैकवाक्यतामापद्यमानः तात्पर्यविषयतां सम्पद्यमानः प्रामाण्यं लभते इत्यर्थः // 16 //