________________ - -- पंचमस्तवके] ईश्वरसाधनम्। न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते / तथाहि-स्रष्ट्रत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्च पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वति॥ सिद्धार्थतया न ते प्रमाणमिति चेत् / न। तद्धतोः कारणदोषशङ्कानिरासस्य प्रकाशः। सिद्धार्थतयेति। इदमत्राभिसंहितम्-व्यवहारत एवाद्या व्युत्पत्तिरुपायान्तरस्य व्युत्पत्त्यधीनत्वात्।तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो व्युत्पित्सुःप्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयाद्यनुविधानादुपस्थितत्वाच्च प्रयोज्यप्रवृत्तिमेव प्रयोजनमवधारयति / __तच्च तदनुकूलव्यापारं विनाऽनुपपद्यमान कार्यताज्ञानमेव व्यापारं कल्पयति, स्वप्रवृत्ती तस्यैव कारणत्वनिश्चयात् / एवञ्च तत्र शब्दस्य हेतुत्वमवधार्य तत्रैव शक्तिं कल्पयति, उपस्थितत्वात् , पश्चादावापोद्वापाभ्यां क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथम सामान्यतस्तत्रैव शक्तिग्रहादिति कार्यान्वित एव पदानां शक्तिरिति सिद्धार्थः शब्दो न प्रमाणम् / अथाकाङ्क्षादेस्त्वयाऽपि वाक्यार्थज्ञानहेतुत्वोपगमात् तत एव कार्यपदसमभिव्याहारात् कार्यत्वज्ञानसम्भवेनान्यलभ्यत्वान्न कार्याशेऽपि शक्तिः / परम्परयाऽपि शब्दस्य कार्यत्वज्ञानानुकूल लत्वादर्थापत्तेः परिक्षयात् / किञ्च कार्यत्ववाचिलिङादीनामाकाक्षायुपेतपदार्थान्वितस्वार्थबोधकत्वस्यावश्यकत्वात् पदान्तराणामपि तथास्वमस्तु लाघवात् / ___ मैवम् / पदानां कार्यान्वितज्ञाने साक्षात्वस्यौत्सर्गिकस्वेन तथैव हेतुत्वस्य न्याय्यत्वात् / अन्वितपदार्थज्ञाने च हेतुत्वे परम्पराया अन्याय्यत्वात् / अर्थापत्तेः साक्षादुपपादकविषयत्वेन साक्षादुपपादके कार्यान्वितज्ञाने पदानां शक्तिकल्पनात् / लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वतर्कस्याप्यभावात् , अाद्यव्युत्पत्तेर्विचार्यत्वात् / न च कार्यवाचिलिङादीनां व्यभिचारः। कार्यत्ववि तच्व कायोन्वितस्वाथेप्रतिपादकतया इतरान्वितस्वार्थकार्यप्र. तिपादकतया वेति न कश्चिद्विशेषः / __ अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति / तथाहि उपलब्धचैत्र पुत्रजन्मा बालस्तादृशेनैव वार्ताहारेण समं चैत्रसमीपं गतः 'चैत्र ! पुत्रस्ते जातः, इति वार्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसाद पश्यन् श्रोतुहर्षमनुमिनोति, हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति, उपस्थितत्वादुपपादकत्वादन्योपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवात् / मैवम् / हर्षहेतूनां बहूनां सम्भवात् हर्षेणापि लिङ्गेन पुत्रजन्मज्ञानस्य बालेनानुमातुमशक्यत्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् / अत एव विधिशेषीभूतार्थवादानां स्वर्गादिपदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यान्वयात् कार्यान्वितस्वार्थबोधकत्वमिति / तीतोरिति / साध्यार्थानामिव सिद्धार्थानामपि वक्तृदोषनिबन्धनाप्रामाण्यनिरासादित्यर्थः / प्रकाशिका। अभिप्राये इष्टसाधनत्वे च तथासति तात्पर्यादित्यर्थः / परम्परयापीति / कार्यवाचिलिङ्पदसमभिव्याहारादित्यर्थः / किञ्चेति / न हि तत्रापि कार्यान्वितमात्मज्ञानजनकत्वं पौनरुत्क्यापत्तेरिति भावः ।साक्षात्त्वस्येति / इतरपदसमभिव्याहारानपेक्षत्वमेव साक्षात्वम् / अत एवेति / यत एव मकरन्दः / साक्षात्त्वस्यौत्सर्गिकत्वेनेति / यथा च कार्यान्वितव्युत्पत्त्या साक्षात् कार्यान्वितज्ञानं नान्वितव्युत्पत्या, तथा शब्दप्रकाशे अनुसन्धेयम् / टिप्पणी। तात्पर्यविषयतां लभमानः प्रामाण्यमश्नुते, तथा 'यज्ञो विष्णु रि'त्यादिरपि वेदभागः स्वार्थप्रति 72 न्या० कु०