________________ 566 व्याख्यात्रयोपैतप्रकाशयुते न्यायकुसुमाञ्जली [14 कारिकाव्याख्यायो ___ इष्टसाधनतापक्षेऽपि न हन्यात् न हननभावना इष्टाभ्युपाय इति पाक्यार्थः / तथाचानिष्टसाधनत्वं कुतो लभ्यते। न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टमुपेक्षणीयस्यापि भावात्। यत् रागादिप्रसक्तं प्रतिषिध्यते तद्वश्यमनिष्टसाधनं दृष्टम् , यथा सविषमन्नं न भुञ्जीथा इति, तेन वेदेऽप्यनुमास्यते, इत्यपि न साधीयः। प्रतिषेधार्थस्यैव चिन्त्यमानत्वात्। __ न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वा अभावः प्रतिपादयितुं शक्यते, लौकिकानां लौकिकप्रमाणसिद्धत्वात् / तथापि प्रतिपाद्यते तावदिति चेत् / न / पाषण्डागमनिषेधेनानैकान्तात् / नासौ प्रमाणमिति चेत् / न / अर्थविपर्ययप्रति पादनाविशेषेऽस्यापि तथाभावात् / तात्पर्य्यतः प्रामाण्यमिति चेत् / न / विधिनिषेधयोरनन्यपरत्वात्। न विधौ परः शब्दार्थ इति वचनात् / तथापि निषेधे तथा भविष्यतीति चेत् / न / अविना प्रकाशः। अथ प्रवृत्तिमतो निवृत्तिनियोगाधिकार इति यदा भक्षणे प्रवृत्तिस्तदा तन्निषेधे शब्दकार्यज्ञानातद्विपरीतप्रयत्ने जनिते रागान क्रियोत्पत्तिः, तेनैव प्रतिबन्धादिति चेत् / निवृत्तिकार्यताज्ञानेऽपि निष्फलत्वे निवृत्तौ प्रयत्न एव नोत्पद्यते, यस्य प्रतिबन्धकता स्यात् / न च शास्त्रस्थस्य शास्त्रजकर्तव्यताज्ञानं बलवदिति वाच्यम् / तस्य सफलविषयत्वादेवास्य च निष्फलविषयत्वात् / अथ कलअभक्षणस्य निन्दार्थवादेन बलवदनिष्टसाधनत्वज्ञानात् तद्भक्षणे न प्रवर्तते इति चेत् / एवमपि कलजभक्षणे न प्रवर्ततां, तदभावेऽपि निष्प्रयोजनत्वेनाप्रवृत्तौ किमायातमित्यर्थः / तथाचेति। वस्तुतःशत्रुहननभावनायाः कलशभक्षणभावनायाश्चेष्टसाधनत्वमस्त्येवेति भावः / अत एव वक्ष्यति न हीति / अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायेनाह तथापीति / प्रसक्तैव हिंसा यागादिविषया पाषण्डेन प्रतिषिध्यते, न च सा अनिष्टसाधनमिति व्यभिचार इत्याह पाषण्डेति ।नासाविति / प्रमाणत्वेन हेतुर्विशेष्य इत्यर्थः / प्रमाणबाधितार्थविषयत्वेन पाषण्डागमस्येव न हन्यादित्यस्याप्यप्रमाणत्वादित्याह अर्थति। - ननु गङ्गायां धोष इत्यस्येव न हन्यादित्यस्याप्यर्थान्तरे निषिध्यमानानिष्टसाधनत्वरूपे तात्पद्विोधकत्वं स्यादित्याह तात्पर्यत इति / अर्थवादवचनानामन्यत्र विधौ तात्पर्य न तु विधिवचनस्येत्यभ्युपगमात् तदनुरोधेनान्यत्र लक्षणा युक्ता न तु तत्रैवेत्याह / न विधाविति / भावविधावेव तथा न तु निषेधविधावपीत्याह तथापीति / यत्र लक्षणीयार्थेनाविनामावस्तदुद्देशेन प्रयोगश्च तत्रैव लक्षणा, न च न हन्यादिति वाक्यमन्यपरत्वेन प्रयुक्तं, न वाऽनिष्टसाधनत्वेनाविनाभाव इत्याह अविनाभावेति / ननु यथा असुरादिपदे न निषेधो नअर्थः किन्तु तदन्यद्विरोधि, प्रकाशिका। घस्तुत इति / तथा च तदभावप्रतिपादने बाध इति भावः। न हीति / न हि कर्तव्यत्वस्य मकरन्दः। अत एव न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य वा अभावः प्रतिपादयितुं शक्यते इति वक्ष्यतीत्याह न हीति। टिप्पणी। 'न कलशं भक्षयेदि'त्यादौ तृप्तिरूपेष्टसाधनत्वस्य सत्त्वात्तन्निषेधानुपपत्तिरित्याह निषेधेति /