________________ पंचमस्तवके] ईश्वरसाधनम् / तत्र सद्भावात् / हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातकं दृष्टार्थिनं प्रवर्त्तयेदेवेति साधु शास्त्रार्थः। अहननेनापूर्व भावयेदिति त्वशक्यम् / कारणस्यानादित्वेन कार्यस्यापि तथाभावप्रसङ्गात् , भावनायाश्च तदविषयत्वात् / अहननसङ्कल्पेनेति यावजीवमविच्छिन्नतत्सङ्कल्पः स्यात् / सकृत् कृत्वैव वा निवृत्तिः। पश्चाद्धन्यादेवाविरोधात् / सम्पादितो ह्यनेन नियोगार्थः। यावद् यावद्धननसङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्व भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्तम् / तदश्रुतेः / प्रसक्तं हि प्रतिषिध्यते नाप्रसक्तमिति चेत् / न वै किञ्चिदिह प्रतिषिध्यते / तदभावः प्रतिपाद्यते इति निषेधार्थः। हननकरणकमपूर्व वाक्यार्थः॥ किश्च न हन्यादिति अहननेनापूर्वस्य कर्त्तव्यताप्रत्ययो जातो वेदात् , जातश्च हननक्रियायां रागात् / निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादेवेत्यहो वेदव्याख्याकौशलमास्तिक्याभिमानिनो मीमांसकदुर्दुरूढस्य / . प्रकाशः। निरातङ्कमिति। अत्र किं सुकृतापूर्वस्य निषेधः, दुरितापूर्वस्य वा ? आये धर्मानुत्पादेऽप्यधर्मोत्पादकमानाभावादृष्टफलार्थी हनने प्रवर्तत / अन्त्ये च सुतरां प्रवृत्तिः स्यादित्यर्थः / अथ नमा धात्वर्थान्वयः, तत्राह अहननेति।कारणस्येति। हननप्रागभावस्यानादित्वादनाधर्व स्यादित्यर्थः / ननु हननप्रागभावविषया भावनाऽपूर्वमुत्पादयिष्यतीत्यत आह भावनायाश्चेति / प्रागभावस्तदा भावनाविषयः स्यात् , यदि तत्स्वरूपं भावनासाध्यं स्यात् , न चैवमित्यर्थः।। सङ्कल्पविधिपक्षे निषेधानुपपत्तिमाह अहननेति / सर्वदा किमहननसङ्कल्पेनापूर्व भावयेदित्यर्थः, यदा कदाचिद्वा ? आये, यावज्जीवमिति / अन्त्ये, सकृदिति / नियोगार्थो विध्यर्थः / विपरीतेति। अहननसङ्कल्पेनेत्यर्थः। तथाभूतस्येति। प्रवृत्तिमत एव निषेधापूर्वेऽधिकारादित्यर्थः। तदश्रुतेरिति / हननसङ्कल्पवतो विपरीतसङ्कल्पकत्वाश्रुतेरित्यर्थः / ननु प्रसक्तं हननं निषेध्यं, प्रसङ्गश्च तत्करणसङ्कल्प एव, इच्छाया एवायप्रवृत्तित्वादित्यश्रुतमपि तल्लभ्यते इत्याह प्रसक्तमिति / नात्र हननं निषिध्यते, किन्तु हननाभावसङ्कल्पकारणकमपूर्व विधीयते इत्याह न वै किञ्चिदिति / .. किञ्चेति / अपूर्ववाच्यत्वेऽपि 'न कलशं भक्षयेदि'त्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमवगम्यापि तदभावे न प्रवर्तत / तथाहि कलजभक्षणे रागादस्य कर्तव्यताबुद्धिर्जाता, शब्दाच्च भक्ष. णाभावे / निःफलाच्च कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्तेत, न तदभावे, तस्य निःफलत्वात् / न च निषेधापूर्वमेव फलं तस्य सुखदुःखाभावान्यतया पण्डत्वेन तदजनकतया च गौणमुख्यप्रयोजनत्वाभावात् / प्रकाशिका। मेव शब्दधर्मस्यार्थभावनारूपेऽभावादिति मतान्तरमेवेदमर्थनिष्ठाभिधेति भावः ।संकल्पविधिपक्ष इति / सङ्कल्पेति लिङर्थान्वयपक्ष इत्यर्थः। तेन नाप्रेतन विकल्पविरोध इत्यवधेयम् / यावज्जीवमिति। न च तत्सम्भवति सुषुप्त्याद्यानुपपत्तेरिति भावः। ननु प्रवृत्तिमतो निवृत्तिनियोगेऽधिकारात् प्रवृ. तिष्वप्रसको न त सङ्कल्प इत्यत आह इच्छाया एवेति / श्राद्या प्रवृत्तिरिच्छवेत्यभिधानादिति भावः। मकरन्दः। . यावजीवमिति / न च तत्सम्भवति, सुषुप्त्यादिदशायां तद्विच्छेदादिति भावः / ननु प्रवृत्तिमतो निवृत्तिनियोगाधिकारात् प्रसङ्गः प्रवृत्तिः न तु सङ्कल्प इत्यत आह इच्छाया एवेति / आद्या प्रवृत्तिरिच्छेवेत्यभिधानादिति भावः /