________________ पंचमस्तवके] ईश्वरसाधनम्। 563 अत्राभिधीयते-अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः, तथापि नासौ लिङर्थः, सन्देहात्। सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादावनुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते, चेष्टाविशेषा. नुमितादिवाभिप्रायविशेषात् समयाभिशेनेति सन्दियते / एवञ्च सति सा नाभिधीयते इत्येव निर्णयः // 13 // . हेतुत्वादनुमानाच मध्यमादौ वियोगतः। अन्यत्र क्लुप्तसामर्थ्यान्निषेधानुपपत्तितः॥ 14 // तथाहि-अग्निकामो दारुणी मश्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निरस्य सिद्ध्यतीति / तरति ब्रह्महत्यां योऽश्वमेधेन यजते इत्या. दाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः-यदश्वमेधेन यजेत मृत्यु: ब्रह्महत्यातरणकाम इत्यादिविधिम् / निन्दया च निषेधम् / तत् यथा प्रकाशः। साधनतां विधिं व्युत्पाद्य स्वसिद्धान्तेन निराकर्तुं सन्देहं तावदाह अस्त्विति। स्तनपानादाविति / यथा स्तनपानादेरिष्टसाधनत्वं साक्षादेव पानादवगम्यते इत्यर्थः / तत्प्रतिपादितादिति / लिखा बोधितादाप्ताभिप्रायादिष्टसाधनत्वमनुमीयते, ततः प्रवृत्तिरित्यर्थः। समयश्चेच्छाविशेषः सङ्केतः / एवञ्चेति / इष्टसाधनता न लिडाऽभिधीयते, किन्त्वाप्ताभिप्रायविषयत्वेनानुमीयते इत्यर्थः।। ___ तदुपपादयति-हेतुत्वादिति / अनुमानादिति / विधेरिति शेषः। मध्यमादाविति / मध्यमपुरुषोत्तमपुरुषलिङ इष्ठसाधनतावियोगादित्यर्थः। अन्यत्रेति / आज्ञाऽध्येषणादौ लिङइच्छाविषयत्वकल्पनात् लिङमात्रस्य तथौचित्यादित्यर्थः / निषेधेति / सर्वत्र विधिप्रकारेषु न हन्यादिति निषेधानुपपत्तेरित्यर्थः / ___ हेतुत्वादिति व्याचष्ठे अग्निकाम इति / लिङवेष्टसाधनत्वाभिधाने यतस्तन्मथनादिति हेत्व. भिधानं व्यर्थमित्यर्थः / अनुमानादिति विवृणोति तरतीति / लिङेष्टसाधनताऽभिधाने विधेरनुमान व्यर्थ, तदर्थस्य वाक्यादेव प्रतीतेरिति तदन्य एव लिङर्थ इत्यर्थः / मध्यमादाविति व्याचष्टे प्रकाशिका। मिष्टसाधनत्वस्य तद्धतुत्वेनाभिधानादित्यर्थः। ननु न हन्यादित्यत्र हननाभावविषयकभावनैवार्थो मकरन्दः। परिसङ्घयानमित्यभिधानपर्याय एव अन्यस्य दुर्वचत्वादित्यनुशयमाविष्करोति इत्यन्ये इति / टिप्पणी। हेतुत्वादिति। नेष्टसाधनत्वं विध्यर्थ इति शेषः। सिध्यतीति। इष्टसाधनत्वस्य विध्यर्थत्वेऽजीक्रियमाणे तु दारुमथनमिष्ट (अग्नि) साधनमिष्टसाधनत्वादित्यनुमिनुयात् , न च तत्संभवति हेतुसाध्ययोरविशेषात् , प्राप्ताभिप्रायस्य विध्यर्थत्वे तु प्राप्ताभिप्रायविषयत्वादिति हेतुः सम्भवतीति भावः / अनुमानादिति / 'तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्याद्यर्थवादतो मृत्युतरणादिरूपेष्टसाधनत्वस्याश्वमेधेऽवगमेऽपि अनन्तरं 'मृत्युब्रह्महत्यासंतरणकामोऽश्वमेधेन यजेदिति विध्यनुमानं सर्वसम्मतं भवति तस्य वैयर्थ्यम् , इष्टसाधनत्वस्य विष्यर्थत्वे हि अश्वमेध इष्टसाधनमिति प्रतीतिः स्यात् सा चार्थवादलब्धैवेत्यर्थः। मध्यमादाविति / मध्यमपुरुषे उत्तमपुरुषे चेत्यर्थः / कुर्याः कुर्यामित्यादौ सर्वत्रैवेष्टसाधनत्वस्य वियोगः, तत्र हि श्राज्ञादिः प्रतीयते न त्विष्टसाधनत्वमित्यर्थः। अध्येषणादिलिडामिच्छावाचकत्वादपि न तथेत्थाह अन्यत्रेति /