________________ 562 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाखलौ [ 13 कारिकाव्याख्यायो / करणस्येष्टसाधनताऽभिधाने ज्योतिष्टोमेनेति तृतीयया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव / तत्सङ्ख्याऽभिधानं हि तदभिधानमाख्यातेन, न च तत् प्रकृते। न च यागेष्टसाधनताऽभिधानं लिङा, किन्त्वन्वयबलात्तल्लाभ इत्युक्तम्। ___ यत्तु सिद्धापदेशादपि प्रतीयते इष्टसाधनता, न चातः सङ्कल्पात्मा प्रवृत्तिरस्तीति देश्यम् / तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनताऽवगमेऽपि न प्रवृत्तिरिति कः प्रतीयात् / सर्वपक्षसमानश्चैतत् समानपरीहारश्चेति किन्तेन। प्रकाशः। ननु यदीष्टसाधनता लिङर्थः, 'तदा ज्योतिष्टोमेन यजेते'त्यादौ तृतीया न स्यात् , यागकरणत्वस्य लिङवाभिधानादित्यत (1) आह करणस्येति। लिझाख्यातेन यागसंख्याभिधा. नरूपं तदभिधानं वाच्यम् , न चैवमिहास्तीत्याह तत्संख्येति / यजेतेत्यत्र हि न करणे लकारो येन तद्गतसंख्यामभिदध्यात् , किन्तु कर्तरीति तत्संख्याऽभिधाने तृतीयोपयोगः, तृतीयातोऽपि लब्धे करणत्वे नेह तात्पर्य्यमित्यर्थः / लिङा चेष्टसाधनतामात्राभिधानेऽपि न यागस्य तदभिधानमित्याह न चेति / यद्यप्येवमप्यभिधानमस्ति, तथापि वाक्यार्थतया न पदार्थतया, तथाऽनभिधानचा 'नभिहित' इति सूत्रे विवक्षितमित्येके / लिकृत्तद्वितैः परिसंख्यानं नियामकमित्यन्ये / यत्त्विति / यागः स्वर्गसाधनमिति सिद्धार्थवाक्यादिष्टसाधनत्वज्ञानेऽपि न प्रवृत्तिरिति नायं विधिरित्यसिद्धं, ततोऽपि स्वर्गकामस्य तत्साधनताज्ञानवतः प्रवृत्तेरित्यर्थः। अन्येषामपि विधीनां सिद्धार्थात् प्रतीतावप्रवृत्त्या न ते विधयः स्युरित्याह सर्वपक्षेति / एतद्रूषणमित्यर्थः / एवमिष्ट प्रकाशिका। भावः / तत्रादिपदेनेति भावः। न चपूर्वन्तदर्थस्य लिङर्थ इत्यों न तु भाव्यं लिङर्थ इति वाच्यम् / तदर्थ इत्यत्र तत्पदेन यजेतेत्यादौ समुदायस्यैवोक्तत्वादिति / लिङवाभिहितत्वादिति / तृतीयायाश्चानभिहिताधिकारीयत्वादिति भावः / तृतीयोपयोग इति / तृतीयासम्भव इत्यर्थः / कारणसंख्यायाश्च अनभिधानात्तदभिधानाभावस्यैव चानभिहितसूत्रार्थत्वादिति भावः। नन्वेवं तृतीयया आख्यातेन च करणत्वाभिधाने पौनरुक्त्यमत प्राह तृतीयातोपीति / तात्पर्यगौरवादुक्तदोषाच्च वाजपेयाधिकरणन्यायादनन्वितमेव तृतीयोपस्थाप्यं करणत्वमिति भावः / एके इत्यरुचौ, तद्बीजन्तु एवंसति क्वाप्यभिधानं न स्याद्विशिष्ठस्य सर्वत्रापदार्थत्वादिति / परिसंख्यानं विशेषः, स च विषयविशेषाधीनः प्रयोगानुसारकल्प्य इति भावः / विशेषस्यानुगतस्याभावान्न नियामकत्वमित्यरुचिमाविष्करोति अन्य इति / हेतुत्वादिति कारिकास्थदलस्य प्रतीतलिङ्गार्थत्वे त्वाकांक्षाया मकरन्दः / तत्रादिपदेनेति / न च तदर्थ इत्यस्य पूर्व लिङर्थ इति विवरणाद्यागस्य च लिङर्थत्वाभावाद्विरोध इति वाच्यम् / लिब्र्थत्वेन तस्यापि विकल्पे दोषाभिधाने दोषाभावादित्यर्थः / तदर्थ इत्यत्र तच्छब्देन शब्दस्यैव विवक्षा, उपस्थितत्वात् / न लिङः, अनुपस्थितत्वात् / प्रकाशे च लिर्थ इति विवरणं भावनामात्राभिप्रायेणेत्याहुः / / तृतीयोपयोग इति / तृतीयासम्भव इत्यर्थः / कारणसङ्खथाया अनभिहितत्वादिति भावः / नन्वेवं तृतीयया करणत्वस्याभिधानात् लिडाऽपि च तदभिधाने पौनरुक्त्यमित्यत आह तृतीयातोऽपीति / गौरवादुक्तदोषाच्चेति भावः / वाजपेयाधिकरणन्यायात् कर्मनामधेयतया तृतीयायाः प्रथमं मूकत्वादित्यन्ये / (1) लिङवाभिहितत्वादिति प्रकाशिकाभिमतः पाठः /