________________ श्रीगणेशाय नमः // न्यायकुसुमाञ्जली तृतीयस्तबकः। प्रकाशः। नन्वेतदपि कथं, तत्र बाधकसम्भवात् / तथा हि / यदि स्यादुपलभ्येत / अयोग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हि शशशृङ्गमष्ययोग्यत्वान्नोपलभ्यते इति स्यात् / नैतदेवम् / शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् / चेतनस्यापि योग्यो . बोधनी। तदेवमीश्वरविषयस्योपदेशलिङ्गानुमानस्यान्यथासिद्धिनिराकृता / अथेदानों तदभावावेदकप्रमाणसद्भावादित्याशहितं, तस्य कालात्ययापदिष्टत्वं निराचिकीर्षुः स्मारयति तावत्-नन्वेतदपि इति / मा भून्नित्यवेदद्वारा वा कपिलादिद्वारा वा धर्मसंप्रदायस्तथाप्येतदीश्वरद्वारकत्वमपि कथ सिध्यति, तत्रेश्वरे बाधकसद्भावात् / यद्वा, यद्यप्यन्यथासिद्धिनिराकृता, तथाप्येतत्परोक्त कालात्ययापदिष्टत्वं कथं निरसनीयम् / यद्वानन्यस्प्रत्यक्षं सिद्धमप्येतत्कथं साधकं तत्रानुमाने बाधकसद्भावादिति / बाधकमेवोपपादयितुमुपक्रमते-तथा हि इति / तत्र प्रत्यक्षानुपलम्भेन बाधकं तावदाह-यदि,स्यात् इति / न चोपलभ्यत इति शेषः / तणानेनानुगृहीतं प्रत्यक्षं जगस्कर्तुरभावमावेदयतीति भावः / सिद्धान्ती शङ्कते-अयोग्यत्वात् इति / योग्यानुपलम्भो हि बाधक इति / एवं तहिं इति / न चासत्त्वादिति शेषः / शशशृङ्गप्रतिबन्दीमुन्मोचयन् सिद्धान्ती शहतेनैतदेवम् इति / शृङ्गस्य रूपवत्त्वमहत्त्वाभ्यां प्रत्यक्षयोग्यत्वेन गवादिशृङ्गे व्याप्तिदर्शनादस्यापि शास्य सतो योग्यतया भवितव्यम्-तस्माच्छशशृङ्गस्य योग्यानुपलम्भोऽस्तीति / इतरः पुनरीश्वरस्यापादयति-चेतनस्य इति / चेतनादियोगिनो हीश्वरस्य शरीरायुपाधिसंबन्धोऽवश्यंभावी तत्कार तृतीयां विप्रतिपत्तिं दूषयितुमुपन्यस्यति नन्वेतदपीति / अन्यथासिद्धिनिराकरणमपि कथमीश्वरसाधनाय, तत्र प्रत्यक्षबाधादित्यर्थः / तत्र स्वरूपसदनुपलब्धिसहकृतप्रत्यक्षबाधमाह / तथा हीति / यद्यप्यनुपलम्भेनेश्वरान्योन्याभावात्यन्ताभावसाधने इष्टापत्तिः, प्रागभावप्रध्वंससाधने चापसिद्धान्तः / तथापि क्षित्यादिकं यदि सकर्तृकं, वेदश्च यदि सकतृकः स्यात्तदा तद्वत्तयोपलभ्येत इत्यर्थः / अनुपलब्धिमात्रस्य बाधकतायामयोग्योच्छेद इति योग्यानुपलब्धिर्वाधिका वाच्येत्याह / अयोग्यत्वादिति / एवं शशः शृङ्गी पशुत्वादित्यत्रापि तद्बाधो न स्यादयोग्यत्वाच्छृङ्गस्येत्याह / एवमिति / शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यतया योग्यत्र्यक्तिवृत्तित्वनियमान्नायोग्यं शृङ्गमित्याह / शृङ्गस्येति / एवं शरीरविशिष्टात्मनि कर्तृत्वेन कर्तृयोग्यतानियमाद्विशेषणबाधेन विशिष्टबाध एवेत्याह / चेतनस्यापीति / न तु कर्तृव्यापकशरी प्रकाशिका। श्रीगणेशः पातु / अनुपलब्धेः स्वातन्त्र्येण न बाधकत्वमप्रमाणत्वादत आह / तत्रेति। इष्टापत्तिरिति / यद्यपि भावाभावसाधारणपदार्थमात्र ईश्वरान्योन्याभावसाधने नेष्टापत्तिः, एवमीश्वरसत्ताविरोध्यत्यन्ताभावसाधनेऽपि / तथापि तथासति असत्प्रतियोगिकत्वमेव दोषोऽन्यथा त्विष्टापत्तिरित्यत्र तात्पर्यम् / अनुपलब्धिमात्रस्य बाधकत्वेऽयोग्यत्वाभिधानमफलमत आह / अनुपलब्धिमात्रस्येति। विशेषणबाधेनेति / विशेषणबाधात्मक एव विशिष्टबाध इत्यर्थः / मीमांसकैविशेषणाभावादी मकरन्दः। ... अनुपलब्धेः स्वातन्त्र्येण प्रामाण्यानभ्युपगमान्न बाधकत्वमत आह तत्रेति। विशेषणबाधेनेति।