________________ सुभाषित सूक्तरत्नमाला धन्यःस मासो दिवसोऽपि धन्यः स एव साऽपि घटिकाऽपिधन्या। यत्र प्रभुर्भाग्यवता जनेन, दृष्टो जगत्स्वामी कृपानिवासः॥१८॥ नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! संसारमरुकल्पद्रो ! विश्वोद्धारणबान्धव ! // 19 // . देव ! त्वं दुःखदावाग्नि-संतप्तानामेकवारिदः। . मोहान्धकारमूढानां, एकदीपस्त्वमेव हि // 20 // त्वां ध्यायन्तः स्तुवन्तश्व, पूजयन्तश्च देहिनः। धन्यास्ते जगृहुदैहान्मनोवाग्वपुषां फलम् // 21 // महिमानं यदुत्कीर्त्य, तव संहीयते वचः / श्रमेण तदशक्त्या वा, न गुणानामियत्तया // 22 // जिनधर्मविनिर्मुक्तो, माऽभूवं चक्रवर्त्यपि / स्यां चेटोपि दरिद्रोपि, जिनधर्माधिवासितः // 23 // जिनेन्द्रचन्द्रप्रणिपातलालसं, मयाशिरोऽन्यस्य न नाम नाम्यते / गजेन्द्रगण्डस्थलदानलम्पटं,शुनीमुखे नालिकुलं निलीयते॥२४॥ ऐन्द्रश्रेणिनताप्रतापभवनं भव्याङ्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता / मृतिः स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फरन्मोहोन्मादधनप्रमादमदिरामत्तैरनालोकिता // 25 // मूर्तिस्ते जगतां महार्तिशमनी मूर्ति नानन्दिनी, मूर्तिर्वाच्छितदानफल्पलतिका मूर्तिः सुधास्यन्दिनी /