________________ श्रीवीतरागस्तुतिः अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् // 11 // किं ! कर्पुरमयं सुधारसमयं किं ! चन्द्ररोचिर्मयं, किं ! लावण्यमयं महामणिमयं कारुण्यकेलिमयम् / विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वपुर्जिनपतेभूयाद्भवालम्बनम् / / 12 // पातालं कलयन् धरां धवलयन् नाकाशमापूरयन् , दिक्चक्रं क्रमयन् सुरासुरनरश्रेणीश्च विस्मापयन् / ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलाल्लोलयन् , श्रीचिन्तामणिपार्श्वसंभवयशोहंसश्चिरं राजते // 13 // जिनवर ! तव मूर्ति ये न पश्यन्ति मूढाः, कुमतिकुमतभूतैः पीडिताः पुण्यहीनाः / सकलमुकृतकृत्यं नैव मोक्षाय तेषां, सुनिविडतृणराशिश्चाग्निसङ्गाद्यथैव // 14 // द्विजराजमुखो गजराजगतिः, अरुणोष्टपुटः सितदन्तततिः। शितिकेशभरोम्बुजमजुकरः,सुरभिश्चसितःप्रभयोल्लसितः॥१५ मतिमान् श्रुतवान् प्रथितावधियुक्, पृथुपूर्वभवस्मरणो गतरुक्। मति-कान्ति-धृतिप्रभृतैः स्वगुणैर्जगतोऽप्यधिको जगतीतिलकः अहो मे सफलं जन्म, पूर्णाः सर्वे मनोरथाः। लब्धा सर्वार्थसंपत्तिदृष्टो यत्त्रिजगद्विभुः // 17 //