________________ जुदा जुदा विषयमा मलेला काव्यो 53 विक्रमाक्रान्त विश्वो पि, परस्त्रीषु रिरंसया। कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥३४॥ पुण्यानुबंधि पुण्योदय आरोग्यभाग्याभ्युदयप्रभुत्वं / सत्वं शरीरे च जने महत्वं // तत्त्वं च चिते सदने च संपत् / संपद्यते.पुण्यवशेन पुंसां॥३५॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि / नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः॥३६॥ माणुस्सखित्त-जाइ-कुल-रूवारूगमाउअं बुद्धी। सवणगहणसद्धा, संजमो अ लोगम्मि दुलहाई // 37 // दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च / भवार्णवोत्तारणसत्तरण्डं, धर्म चतुर्दा मुनयो वदन्ति // 38 // .महासतीओन सगपण . पितृ-मात सखीवन्धु-जनो बाल्येपि यो भवेत् / / तरुणीनां च तारुण्ये, एकएव प्रियः प्रियः / / 39 // महापापी मनुष्यो कूटसाक्षी मृषाभाषी, कृतघ्नो दीर्घरोषणः / मद्यपापर्द्धिकुन्नीरे-न शुध्यति कदाचन // 40 // जिनालय महीमा रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं / . मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा। बद्धं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं / प्राप्त जन्मफलं पुनर्जिनमतं गोत्रं समुद्योतितं // 41 //