________________ विविधविषयविचारणासूक्तानि - आटला स्वभावचीज शत्रु के स्वभावतो भवन्त्येते-ऽरयो दुर्वृत्त एव च / ऋणकारी पिता शत्रुः, माता स्त्री व्यभिचारिणी // 88 // दुष्टानां भूपतिः शत्रुः, कुलटानां पतिव्रता / साधुः खलानां शत्रुः स्या-न्मूर्खाणां पण्डितो रिपुः // 89 // सेवा सुखानां व्यसनं धनानां, याचा गुणानां कुनृपः प्रजानाम् / प्रनष्टशीलश्च सुतः कुलानां, मलावघाती कठिनः कुठारः // 9 // अवर्णवादो महापापकारी, अवर्णवादो नरकावतारी। अवर्णवादो हरते गुणाली, अवर्णवादं त्यज भाग्यशालिन् / चिन्तया वर्धते व्याधिः, चिन्तया क्षीयते तनुः। चिन्तया हीयते बुद्धिः, तस्मात्कार्या न सा बुधैः // 92 // मनुष्य जन्मनां छ स्वर्गों धनाढयता राजकुले च मानं, प्रियानुकुला (सुशीला) तनया विनीताः। धर्मे मतिः सज्जनसङ्गतिश्च, पडू जीवलोके स्वर्गा भवन्ति // 93 // धीरतानुं परिणाम भानुश्च मन्त्री दयिता च सरस्वती, मृत्युं गता सा नृपकैत केन।