________________ 474 सुभाषितसूक्तरत्नमाला नबळा माणसोनो कोश कलुषः कुटिलः कुण्डः, कितवः क्रोधनः कुधीः। कृतघ्नः कृपण: क्रूरः, कठोरः कोऽपि नाऽभवत् // 62 // पृथ्वी उपरनां त्रण रत्नो / पृथिव्यां त्रिणि रत्नानि, जलमन्नं सुभाषितम् / मृढः पाषाणखण्डेषु, रत्नसंज्ञाऽभिधियते // 63 // मदनमंजरीनी पति माटे प्रतिज्ञा शब्दवेधं धनुर्वेध, भाषा: शिल्पकलाः समाः / यो वेत्ति स्पष्टमष्टाङ्ग-निमित्तं च स मे पतिः // 64 // वस्तुओनु अंतर वाजिवारणलोहानां, काष्टपाषाणवाससाम् / नारीपुरुषतोयाना-मन्तरं महदन्तरम् // 65 // मलेच्छ जातिओ पुलिन्दा नाहला नेष्टाः, शबरा बरटा भटाः / * माला भिल्लाः किराताश्च, सर्वेपि म्लेच्छजातयः // 66 // संगीतना सात स्वरो षड्जऋषभगान्धारा, मध्यमः पञ्चमस्तथा / धैवतो निषधः सप्त, तन्त्रीकण्ठोद्भवाः स्वराः // 67 // राजकुलमां जवाथी फायदो गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवंत्यर्था, भवत्यनर्थप्रतिघाताः॥ 68 //