________________ सामुद्रिके स्वप्नादिसूक्तानि . जीक्योग चन्द्रात् सप्तमगो जीवो-ऽथवा स्याच्चन्द्रसंयुतः। जीवयोगं तमित्याहुः, चिरायुः सुखवान् भवेत् // 6 // चतुःसागर योग केन्द्रस्थानेषु सर्वेषु, (1-4-7-10) यदि सौम्यग्रहास्तदा। चतुःसागरयोगोऽयं, देवानामपि दुर्लभः // 7 // 165 सामुद्रिके स्वप्नादिसूक्तानि अलंकृतानां द्रव्याणां, वाजिवारणयोस्तथा। वृषभस्य च शुक्लस्य, दर्शने चाप्नुयाद्यशः // 1 // मुत्रं वा कुरुते स्वप्ने, पुरीषं चापि लोहितम् / प्रतिबुद्धयेत य: सोऽर्थनाशं प्राप्नोति निश्चितम् // 2 // गजारोहणाद्भवेद्राज्यं, श्रीप्राप्तिः श्रीफलागमात् / पुत्राप्तिर्फलिताम्रस्य, सौभाग्यं माल्यदर्शनात् // 3 // अंगस्फुरण विचार सिरफुरणे किर रज्जं, पियमेलो होइ बाहुस्फुरणम्मि / अच्छिफुरण मि अपियं, अहरे पियसंगमो होइ // 4 // शिरसः स्फुरणे राज्यं, हृदयस्फुरणे सुखम् / बाह्वोश्च मित्रमेलापो, जडयो गसम्भवः / / 5 // .