________________ 424 सुभाषितसूक्तरत्नमाला तथा पुण्यसमं मन्त्रं, जगत्रितयपावनम् / योगी पञ्चपरमेष्ठि-नमस्कारं विचिन्तयेत् // 3 // एनमेव महामन्त्रं, समाराध्येह योगिनः / त्रिलोक्यापि महीयन्तेऽधिगताः परमां श्रियम् // 4 // एकैकोप्यभिवाञ्छितानि वितरेयाताऽहतादिभुदा, सज्जेष्टया परमेष्ठिनः किम् परं पञ्चापि चानुस्मृताः / तत्कः स्वस्य रिपुः स्वरिच्छति न कः काक्षेत मोक्ष न करेयोऽस्मिन् श्रीपरमेष्ठिपञ्चकनमस्कारे न बद्धादरः / / 5 / / किं दानैः किषु भूरिशास्त्रपठनैः किं देवपादार्चनैः, किं ध्यानैस्तपसा च किं किमथवा चान्यविवे कैरपि / चेत्संसारसरित्पतौ तरिसमा नैवास्ति कल्याणभूभक्तिः श्रीपरमेष्ठिपञ्चकनमस्कारे तृणां निश्चला // 6 // वहन्युदीप्तगृहादन मणिवजन्येवमोघास्त्रवत् , सिन्धौ मजदनल्पनाफलकवत्पातेऽथवालम्ववत् / गृह्णन् पञ्चनमस्कृति सकलमप्यन्यद्विहायादराज्जीवो जीवितविप्लवेऽपि न भवत्येवापदामास्पदम् / / 7 / / स्थिति-गति-सुख-दुःख-स्वप्न-निद्रान्त-हाडटवि-निशि-दिन-पातोत्पातवेलामु येषाम् / व्रजति ना परमेष्ठिश्रेष्ठमन्त्री मनस्तः, त इह भासमुद्राद् द्राग् बहिष्ठाद् भवन्ति // 8 //