________________ 374 सुभाषितसूक्तरत्नमाला ज्ञानेन ज्ञायते जीवा-ऽजीवादितत्त्वसञ्चयः / जीवरक्षापरं धर्मा-नुष्ठानं सफलं हि तत् // 14 // यावज्जीवनिकाया षड्, न ज्ञाता जिनशासनात् / करोति तावदज्ञानी, जीवानां रक्षणं कथम् // 15 // तथा श्रवणं श्रुतमभिलापप्लावितार्थग्रहणहेतुः, उपलब्धिविशेष: प्लावितशब्दार्थः॥ तथा वल्कसमं मतिज्ञानं करणत्वात्, शुंबसमं श्रुतज्ञानं तत्कार्यत्वात् // ' कर्मतापकरं ज्ञानं, तपः तन्नैव वेत्ति यः / प्राप्नोतु स हतस्वान्तो, विपुलां निर्जरां कथम् // 16 // ज्ञानयोगस्तपः शुद्ध-मित्याहुमुनिपुङ्गवाः। तस्मानिकाचितस्यापि, कर्मगो युज्यते क्षयः // 17 // आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते / तपसाप्यात्मविज्ञान-हीनैश्छेत्तुं न शक्यते // 18 // नाणं सदहणं गहणं, पालणा विरतिवुढि चेव त्ति / होइ इहरा उ मोहा, विवज्जओ भणियभावाणं // 19 // सम्यग्ज्ञानं सुदुष्प्रापं, यस्मै येन वितीर्यते / स्वर्गापवर्गसौख्यानि, तस्मै तेन वितेनिरे // 20 // कृतानेककुकर्माणं, चिलातिपुत्रमप्यहो / श्रमणस्त्रिपदीं दत्त्वा, दिव्यां सम्पदमापिपत् // 21 //