________________ 373 सम्यग्ज्ञानसूक्तानि मिथ्याज्ञानं समस्तं तत्, इह लोकोपयोगि यत् / राग-द्वेषादयो यस्मात्, प्रवर्धन्ते शरीरिणाम् // 4 // सम्यग्ज्ञान अने तेनी महत्ता सर्वज्ञेन जिनेनाप्ते-नागमो भणितोऽत्र यः। सम्यग्ज्ञानं भवेत् तच्च, परलोकैकसाधनम् // 5 // जीवाजीवौ तथा पुण्यं, पापं चाश्रय-संवरौ / निर्जरा बन्ध-मोक्षौ च, सम्यग्ज्ञानेन बुध्यते // 6 // सम्यग्ज्ञानस्य विषया, अनन्ताः परिकीर्तिताः। समस्तैस्तैः परिज्ञातै-र्यान्ति रागादयः क्षयम् // 7 // तज्ज्ञानमपि नैव स्याद्, येन रागादिपोषणम् / तिमिरौधं न यो हन्ति, सः सूरः कथमुच्यते // 8 // सम्यग्ज्ञानं नरेणैतद, दातव्यं निजशक्तितः। ज्ञानवान् ज्ञानदानेन, देही भवति निश्चितम् // 9 // अज्ञानी नैव जानाति, जीवाजीवौ कथञ्चन / तदज्ञाता च जीवानां, कथं रक्षां करिष्यति // 10 // जीवा ज्ञानेन जानन्ति, पुण्यं पापं तथैव च / सत्कारणानि सर्वाणि, मोक्षोपायमपि स्फुटम् // 11 // सम्यग्ज्ञानेन संयुक्तं, मोक्षमार्गस्य साधकम् / धर्मानुष्ठानमाख्यातं, सर्व तत्त्वार्थवेदिभिः // 12 // सम्यग्ज्ञानविहीनं यत्, क्रियाकाण्डं विधीयते / तदनर्थाय पूर्दाहे, यथाऽन्धस्य पलायनम् // 13 //