________________ 368 सुभाषितसूक्तरत्नमाला अश्लीला खलु दानशीलतुलना तीर्थादियात्रा वृथा, सम्यक्त्वेन विहीनमन्यदपि यत्तत्सर्वमन्तर्गडूः // 15 // इणमेव निग्गंथे पावयणे अटे परमटे सेसे अणट्ठे / जं संमंति पासह, तं मोणंति पासह / जं मोणंति पासह, तं संमंति पासह // 16 // बन्धं अविरइहेडं, जाणंतो राग-दोस-दुक्खं च / विरइसुहं इच्छंतो, विरइ काउं च असमत्थो // 17 // एस असंजमधम्मो, निंदतो पावकम्मरणं च / अहिगयजीवाजीवो, अचलियदिहि छलियमोहो // 18 // बोधिशब्दना अर्थों ___बोधिः जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृतिकरणअपूर्वकरण-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्गयमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं विज्ञप्तिः इत्यर्थः॥ सुलभवोधिः-परभवे जैनधर्मप्राप्तिर्यस्य स सुलभवोधिः। तस्य भावः सुलभबोधित्वम् // वरः प्रधानोऽप्रतिपातित्वाबोधिलाभः सम्यग्दर्शनावाप्तिर्यस्य स वरबोधिलाभः। बोधिनी दुर्लभता राज्यं वा चक्रभृत्त्वं वा, शक्रत्वं वा न दुर्लभम् / यथा जिनप्रवचने, बोधिरत्यंतदुर्लभा // 19 //