________________ 340 सुभाषितसूक्तरत्नमाला देव-गुरु-चैत्यनी भक्तिना लामो साहूण वंदणेण, नासंति पावं असंकिया भावा / फासुयदाणेण निज्जर, उवग्गहो नाणमाईणं // 36 // मिच्छदंसणमहणं, सम्मदंसण विमुद्धिहेउं च / चिइवंदणाइविहिणा पन्नत्तं वीयरागेहिं // 37 // 9 शीलधर्मसूक्तानि शीलनी महत्ता शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्तदमनं शीलं सुगत्यावहम् / शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निवृतिहेतुरेव परमं शीलं तु कल्पद्रुमम् // 1 // तावद्वयालबलं च केसरिकुलं तावत्क्रुधाव्याकुलं, तावद्भोगिभयं जलं च जलधेस्तावद्धृशं भीषणम् / तावच्चामय-चौर-बन्ध-रणभीस्तावल्लसन्त्यग्नयो, यावन्नति जगज्जयी हृदि महान् श्रीशीलमन्त्राधिपः // 2 // कापि कुलं शीलं कापि, कापि वित्तं तु केवलम् / कुल-शील-वित्तवन्तः स्तोका एवाङ्गिनः कलौ // 3 // यासां मनोगृहे नैव, लीनः कामपिशाचकः / आबाल्याद्धृतशीलाभ्यः, श्रमणीभ्यो नमो नमः // 4 //