________________ 332 सुभाषितसूक्तरत्नमा फलातिशयसिद्धयै हि, दानं सर्वविदाज्ञया / शस्याय जायते बीजं, न झुप्तं विधिना विना // 23 // ततो विवेकिना देयं, सर्वज्ञाज्ञानुसारतः / स्वातितोयमिवावश्य, कल्पते मौक्तिकश्रिये // 24 // विधत्तेऽनेषणीयं हि, दत्तं पात्रेपि भक्तितः / दातुर्दानफलप्राप्तौ, स्वल्पायुष्टादिदौष्ठवम् // 25 // दान स्वहस्ते ज आपq पश्चादत्तं परैर्दत्तं, लभ्यते वा न वा खलु / स्वहस्तेनैव यदत्तं, तद्दत्तमुपलभ्यते // 26 // दाननां दूषणो ददानं यस्तु दुर्बुद्धि-रपरं प्रतिषिध्यति। अतिभद्रवदुन्निद्रं, दारियं तस्य जायते // 27 // यैः पुरा विघ्नितं दानं, भिक्षन्ते ते गृहे गृहे / परत्र कणमात्राय, देहि देहीति वादिनः // 28 // दरिद्रता दुर्भगता सरोगता, कलङ्किता दुर्गतिरल्पजीविता / भुजिष्यता द्वेषिजनप्रधृष्यता, विराद्धदानस्य भवे भवेऽङ्गिनः क्षिप्तकालं कृतावसँ, सानुतापं विकत्थितम् / हीयमानमनौचित्यं, दानमाहुर्मलीमसम् // 30 // क्षिप्तकाले भवेन्नारी, निर्धना पतिवनिता / अपुत्रा च कृतावञ, सानुतापे च दुर्भगा // 31 //