________________ 280 सुभाषितसूक्तरत्नमाला कलई कुरुते कश्चित् , कुलेऽपि विमले सुतः। धननाशकरः कश्चि-द्वयसनैः पुण्यनाशकैः // 6 // पित्रोः संतापकः कश्चिद्, यौवने प्रेयसीमुखः। बाल्येऽपि म्रियते कोऽपि, स्यात् कोऽपि विकलेन्द्रियः // 7 // यथा वृष्टिं विना सस्य, यथा मूलं विना तरुः / यथा गुरुं विना विद्या, यथा धर्मों दयां विना // 8 // यथा ज्ञानं विना तत्त्वं, यथा नीति विना धनम् / तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् (युग्मम्) // 9 // कस्यापि मानसे राज-हंसीव विशदा सदा। विलासं तनुते मात-पितृभक्तिर्महात्मनः॥१०॥ सुपुत्रत्वाभिमानं हि, कथंकारं करोतु सः। शक्तोपि न पूरयति, यो मातुः सन्मनोरथान् // 11 // 111 भिन्नभिन्नविषयकसूक्तानि भगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु / रुपवीर्यप्रयत्नेच्छाश्रीधर्मेश्वर्ययोनिषु // 1 // महागिरिः सुहस्ती च सरि श्रीगुणसुन्दरः / श्यामार्यः स्कन्दिलाचार्यों रेवतीमित्रमरिराट् / श्रीधर्मों भद्रगुप्तश्च, श्रीगुप्तो वज्रसूरिराट् / युगप्रधानप्रवरा दशैते दशपूर्विणः // 2 //