________________ 200 सुभाषितसूक्तरत्नमाला - परदर्शनी मते परिग्रह सर्व नाशक यानमर्धफलं हन्ति, तुरीयांशमुपानहौ। तृतीयांशञ्च मुण्डनं, सर्व हन्ति परिग्रहः॥४॥ परिग्रहने ओछो करवो जोइए संसारमूलमारंभा-स्तेषां हेतुः परिग्रहः। तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् // 5 // अपुत्रीआने उपदेश दारियं जनकस्य नापनयते व्याधीन्न विध्वंसते, नैकान्तेन हितो भवेदिह भवे नो सदगुणश्चाङ्गजः। जन्तूनां गतयः पुनः परभवे भिन्नाः स्वकर्मानुगाः पुत्रार्तिस्तुदते तदप्यसुमतो हि मोहविस्फुर्जितम् // 6 // 73 लक्ष्मीचापल्यसूक्तानि आइत्यादृत्य सर्वान् त्यजति जगति या पण्यनारीव पुंसो, यस्या मोहेन देही गणयति च गुणान् नो विवेकादिकांस्तान् / स्वासक्तानामजस्रं जनयति सुधियामप्यहो ! या कुबुद्धि, तामासाद्य श्रियं को जललवचपलां मुह्यति ज्ञाततत्त्वः // 1 // दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृह्णन्ति छलमाकलय्य हुतभुग भस्मीकरोति क्षणात् / अम्भ: प्लावयति क्षितौ विनिहतं यक्षा हरन्ते हठाद् / दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीने धनम् // 2 //