________________ सत्यताश्रेष्ठत्वसूक्तानि 197 नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या, निर्दम्भत्वेन मैत्री किमपि करुणया भाति धर्मोऽन्यथा न॥७॥ शरीरी म्रियतां मा वा. ध्रवं हिंसा प्रमादिनः / दयैव यतमानस्य, वधेऽपि प्राणिनां क्वचित् // 8 // आउं दीहमरोगमंगमसमं रूवं पगिढ़ बलं, सोहगं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो। आएसेक्कपरायणो परियणो लच्छी अविच्छेइणी, होज्जा तस्स भवन्तरे कुणइ जो जीवाणुकम्पं नरो // 9 // सव्वे वि दुक्खभिरू, सव्वे वि सुहाभिलासिणो सत्ता / सव्वे वि जीवणपिआ, सव्वे मरणाओ बीहंति // 10 // दीनं हीनं जनं दृष्ट्या, कृपा यस्य न जायते / सर्वज्ञभाषितो धर्म-तस्य चित्ते न विद्यते // 11 // ____71 सत्यताश्रेष्ठत्वसूक्तानि प्रियं पथ्यं वचस्तथ्यं, मुनृतव्रतमुच्यते / तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् // 1 // कुदृष्टं कुश्रुतं चैव, कुज्ञानं कुपरीक्षितम् / कुमावजनकं सन्तो, भापन्ते न कदाचन // 2 // पारदारिकदस्यूनां, अस्ति काचित्प्रतिक्रिया / असत्यवादिनः पुंसः, प्रतिकारो न विद्यते // 3 //