________________ 192 - सुभाषितसूक्तरत्नमाला जलमज्झे मच्छपयं, आगासे पंखियाण पयपत्ती। महिलाण हिअयमग्गो, तिन्नि वि लोए न दीसन्ति // 17 // अश्वप्लुतं माधवगजितं च, स्त्रीणां चरितं भवितव्यता च / अवर्षणं चाऽपि सुवर्षणं च, देवा न जानन्ति कुतो मनुष्याः॥ संपीडयेवाहिदंष्ट्राग्नि-यमजिहाविषाङ्कुरान् / जगज्जिघांसुना नार्यः, कृताः क्रूरेण वेधसा // 19 // नाम्ना नहि विषं हन्ति, स्वप्ने दृष्टमपि क्वचित् / स्वप्नेनाऽपि हि नाम्नाऽपि, हन्ति नारीविषं क्षणात् // 20 // 68 विषयत्यागसमर्थकसूक्तानि भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी, तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् / यत्तच्छायाऽप्येषां प्रथयति महामोहमचिरादयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति // 1 // अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः। ब्रुडन्पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते // 2 // विभेषि जन्तो? यदि दुःखराशेः, तदिन्द्रियार्थेषु रतिं कृथा मा। तदुद्भवं नश्यति शर्म यद्राकू, नाशे च तस्य ध्रुवमेव दुःखम् //