________________ 190 सुभाषितसूक्तरत्नमाला असुरसुरपतीनां यो न भोगेषु तृप्तः, कथमिहमनुजानां तस्य भोगेषु तृप्तिः। जलनिधिजलपानाद्यो न जातो वितृष्णस्तृणशिखरगताम्भःपानतः किं स तृप्येत् // 31 // 67 स्त्रीसंसर्गदुष्टताख्यापकसूक्तानि अप्यश्मनिर्मित पुंसां, यासां रूपं मनो. हरेत् / वनिता विश्वमोहाय, मन्ये ता वेधसा कृताः॥१॥ तावन्मौनी यतिञ्जनि, सुतपस्वी जितेन्द्रियः / यावन्न योषितां दृष्टि-गोचरं याति पुरुषः // 2 // संसार ! तव निस्तार-पदवी न दवीयसी / अन्तरा दुस्तरा न स्यु-यदि रे मदिरेक्षणाः // 3 // अनृतं साहसं माया, मूर्खत्वमतिलोभता। अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः // 4 // या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत कः ? / सुधीस्तां कामयेत् मुक्ति, या विरागिणि रागिणी // 5 // हयविहिणा संसारे, महिलारूवेण मंडिअं पास / बज्झन्ति जाणमाणा, अयाणमाणा वि वझंति // 6 // रे ! रे ! मण्डक ! मा रोदी-यदहं खण्डितोऽनया / रामरावणमुञ्जाद्याः, स्त्रीभिः के के न खण्डिताः?॥७॥