________________ 174 सुभाषितसूक्तरत्नमाला मकराकरवत् क्रोधः, क्रूरत्वागाधदुस्तरः / ये पुनः प्रविशन्त्येनं, निमज्जन्तितरां तु ते // 13 // .. क्षणमात्रभवः क्रोधः, प्रेमापि चिरसञ्चितम् / दुषयत्यचिरादेव, कूपाम्भोविषलेशवत् // 14 // मन्यन्ते दुधियोऽन्यस्मिन् , क्रुद्धेनापकृतं मया। नेदं विदन्ति सोढव्यं, मया शतगुणं पुरः॥१५॥ यद्यथा क्रियतेऽन्यस्मिन् , तत्तथैव शुभाशुभम् / आदर्श इव सर्व हि, संक्रामत्यात्मनि क्षणात् // 16 // द्रुमोद्भवं हन्ति विषं न हि द्रुमं, न वा भुजङ्गप्रभवं भुजङ्गमम् . अदः समुत्पत्तिपदं दहत्यहो, हाहोल्वणं क्रोधहलाहलं पुनः // 17 // क्रोधो धर्मद्रमज्वाला-जिह्वः, स्वपरदाहकः / स्वार्थनाशं विधत्तेऽसौ, दत्तेऽमुत्र च दुर्गतिम् // 18 // अहनकेन हरत्येव, तेजः पाण्मासिकं ज्वरः / क्रोधः पुनः क्षणेनापि, पूर्वकोट्यार्जितं तपः // 19 // ____ क्रोधथी खंधकसुरिए करेला नियाणानुं फल. द्वादशयोजनायाम, तद्भूखण्डं महासुरः। चकार भस्मसात् कामं, स्वबोधिं च सुदुर्लभाम् // 20 // दण्डकारण्यमित्याख्या-ख्यातमद्यापि तत्त्वऽभूत् / यस्मिंस्तृणप्ररोहोऽपि, नाविर्भवति सर्वथा // 21 //