________________ 172 सुभाषितसूक्तरत्नमाला रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् / तावेव यदि न स्यातां, तपसा किं प्रयोजनम् // 10 // हास्यान्महान्तो लघवो भवन्ति, हास्याद्धनाको वनितां च मुक्तवान् / ज्ञानं गतं क्षुल्लवरस्य हास्याद् , हास्याच्च मित्राणि भवन्ति शत्रवः // 11 // जच्चाइएहिं हीला, मणसा निन्दा परुक्खओ खिसा। गरिहा तस्स समक्खं, पराभवो होइ अवमाणो // 12 // लोभमूलानि पोपानि, रसमलाश्च व्याधयः। स्नेहमूलानि दुःखानि, त्रीणि त्यक्त्वा सुखी भव // 13 // ___ “कर्मणः कषाया मूलमिति-यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथाचागमः-जीवेणं भंते ! कतिहिं ठाणेहिं णाणावरणिज्ज कम्मं बंधइ ? गोयमा ! दोहिं ठाणेहिं, तं जहा-रागेण व दोसेण व, रागे दुविहे माया लोभे य, दोसे दुविहे कोहे य माणे य॥" 60 क्रोधदुष्टतासूक्तानि कोपनीया न केनाऽपि, साक्षरा हितकाक्षिणा / संजाता विपरीतास्ते, राक्षसा एव केवलम् // 1 // नाकारणरुषां संख्या, संख्याताः कारणे क्रुधः / कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः // 2 //