________________ ध्यानसूक्तानि 139. तत्त्वार्थप्रतिवोधदीपकलिकाः क्षान्त्यङ्गनासंगिनो, निर्वाणकमुखाभिलापिमनसो धन्या नयन्ते निशाम् // 2 // किं लोलाक्षि ! कटाक्ष लम्पटतया किं स्तम्भजृम्भादिभिः,. किं प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोल्लसच्चाटुभिः / आत्मानं प्रतिवाधसे त्वमधुना व्यर्थ मदर्थ यतः, शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः // 3 // बन्धो ! क्रोध : विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि ! माये ! बज / इंहो ! लोभ ! सखे ! यथाभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् // 4 // दृश्यन्ते बहवः कलामु कुशलास्ते च स्फुरत्कीर्तयः, सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः / धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो, द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः // 5 // जह छउमत्यल्स मणो, झाणं भष्णइ मुनिच्चलो सन्तो। तह केवलिणो काओ, मुनिच्चलो भन्नए झाणं // 6 // स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया / चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् // 7 // अहो ! ध्यानत्य महात्म्यं, येनकाऽपि हि कामिनी / अनुरागविरागाभ्यां, स्याद् भवाय शिवाय च // 8 //