________________ सुभाषितसूक्तरत्नमाला मैत्री परहिते चिन्ता, परार्तिच्छेदधीः कृपा / मुदिता सद्गुणे तुष्टि-माध्यस्थ्यं पाप्युपेक्षणम् / / 4 // मैत्री परस्मिन् हितधी: समग्रे, भवेत्प्रमोदो गुणपक्षपातः / कृपा भवार्ते प्रतिकर्तुमीहो पेव माध्यस्थ्यमवार्यदोषे // 5 // मा कार्षीकोऽपि पापानि, मा भूत्कोऽपि च दुःखितः / मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते // 6 // अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् / गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः // 7 // दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् / प्रतिकारपरा बुद्धिः, कारुण्यमभिधीयते // 8 // क्रूरकर्मसु निःशङ्क, देवतागुरुनिन्दिषु / आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् // 9 // 45 ध्यानसूक्तानि रुद्ध प्राणप्रचारे वपुपु नियमिते संवृतेऽक्षप्रपञ्चे, . नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले / भिन्ने मोहान्धकारे प्रसरति महसि क्वाऽपि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् // 1 // स्वाध्यायोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः, सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः।