________________ 134 सुभाषितसूक्तरत्नमाला सत्यं वदाऽत्र यदि जन्मनि बन्धुकृत्य-. माप्तं त्वया किमपि बन्धुजनाद्धितार्थम् / एतावदेव परमस्ति मृतस्य पश्चात् , संभूय कायमहितं तव भस्मयन्ति // 13 // ___ शरीरनु अशुचिपणुं . . अभ्यक्तोपि विलितोपि, धौतोपि घटकोटिभिः। न याति शुचितां कायः, शुण्डाघट इवाशुचिः॥१४॥ एतानि तानि नवयौवनगर्वितानि, मिष्टान्न-पान-शयनासनगवितानि / सन्ध्याभ्ररागसदृशानि विनश्वराणि, भूमौ लुठन्ति कथितानि कलेवराणि // 15 // उत्पन्नमशुचेवृद्धं, रसेनाऽशुचिना वपुः / अशुचिद्रव्यसम्पूर्ण, स्रवत्यशुचि चान्वहम् / / 16 // चेद्भवेदस्य देहस्य, बहिरन्तविपर्ययः / दक्षो रक्षां च कुर्यात्कः, काक-गोमायु-गृध्रतः // 17 // 40 अ. आश्रवभावनासूक्तानि आश्रवनी व्याख्या मनोवाकायकर्माणि, योगाः कर्म शुभाशुभम् / ' यदाश्रवन्ति जन्तूना-मावास्तेन कीर्तिताः // 1 //