________________ वैराग्यसूतानि जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः, कुतो मे? तेभ्य एवेति, मा हन्यां प्राणिनस्ततः // 34 // इहैव नरकव्याधेः, चिकित्सां न करोति यः। गतो निरोजसं स्थानं, सरुजः किं करिष्यति // 35 // मरणाय भवे जन्म, कायो रोगनिबन्धनम् / तारुण्यं जरसो हेतु-वियोगाय समागमः // 36 // निमित्तं विपदां लोके, देहिनां सर्वसंपदः / तन्नास्ति यन्न दुःखाय, वस्तु सांसारिकं जनाः। // 37 // वुच्छिन्ना कि खु जरा, नट्ठा रोगा य किं गयं मरणं / थइअं च नरयदारं, जेण जणो धम्मनिरविक्खो // 38 // मा सुअह जग्गिअव्वे, पलाइअव्वम्मि कीस वीसमह ? / तिन्नि जणा अणुलग्गा, रोगो य जरा य मच्चू य // 39 // इतः क्रोधो गृधः प्रकटयति पक्षं निजमितः, गाली तृष्णेयं विवृतवदना धावति पुरः। इतः क्रूरः कामो विचरति पिशाचश्चिरमहो !, मशानं संसारः क इह पतितः स्थास्यति सुखम् ? // 40 // यथा कुमारी स्वप्नान्तरेषु, जातं च पुत्रं च मृतं च पश्येत् /