________________ अभिधर्मसमुच्चयभाष्यम् (iv) [Ch. 724B] षड् रागादीन् क्लेशान् स्थापयित्वा तदन्यः क्लिष्टश्चैतसिकः संस्कारस्कन्धः क्रोधादिको वेदितव्यः॥ (v) कुशलपक्षान्तरायाय योगिनां पुनःपुनरुद्वेगेन चित्तं पर्यवनयन्तीति पर्यवस्थानानि / कुशलपक्षः पुनर्यथाकालं शमथप्रग्रहोपेक्षानिमित्तभावना तत्संनिश्रयश्च ब्रह्मचर्यादिशुद्धिसंगृहोतं शीलम् / तत्र शमथकाले स्त्यानमिद्धमन्तरायं करोति, आध्यात्म संक्षेपावाहनात् / प्रग्रहकाले औद्धत्यकोकृत्यम्, बहिर्धा विक्षेपावाहनात् / उपेक्षाकाले ईर्ष्या[T. 52 B]मात्सर्यम्, तद्वतः परात्मसंपत्त्यमर्श ग्रहमुखेन मुहुर्मुहुश्चित्तकंपनात् / शीलविशुद्धिकाले आह्वीक्यानपत्राप्यम्, तदुभयवतः सर्वथाऽऽपत्तिस्थानेष्वलज्जनादिति / / (vi, vii) संक्लेशव्यवदानगुणवैगुण्यार्थेन यथाक्रममोघयोगव्यवस्थान वेदितव्यम् / प्राश्रिताश्रयसंबन्धयो[Ms. 52B] गेनेति दृष्टयौ घ आश्रितः, अविद्यौघ आश्रयः, संमोहे सति मोक्षतदुपायविपरीतं संतीरणात् / / (viii) [Ch. 724 C, As. p. 48] दृष्टिशीलवतोपादानाभ्यां तीर्थ्या अन्योन्यं विवदन्ति, तंत्रानेकमत्यात् / प्रात्मवादोपादाने [न] त्वन्योन्यं न विवदन्ति, आत्मनोऽस्तित्वं प्रति सर्वेषां मतसाम्यात् / आत्मबादोपादानेन तीर्थ्या इहधार्मिकः सार्द्ध विवदन्ति, एषां नैरात्म्यवादित्वात् / / (ix) अभिध्यादयः कायग्रन्था इति न रूपकायस्यैते ग्रन्था वेदितव्याः किंतहि समाहितचित्तस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थाः / पृथग्दष्टिसंनिश्रयेणेदमेव सत्यं मोघमन्यदित्यभिनिविश्य ज्ञेयं संतीरयतामयोनिशो ज्ञेयसंतीरणहेतोः चित्तं विक्षिप्यते। कुतो विक्षिप्यते / समाहितचित्तस्य यथाभूतज्ञानदर्शनतः / / (x) कुशलपक्षस्यासंप्रख्या[T. 53 A]नाय चित्तं निवृण्वन्तीति निवरणानि कुशलप्रवृत्तेरन्तरायं कुर्वन्तीत्यर्थः। [Ch. 725 A]. कामच्छन्दं प्रव्रज्याभिरतेरन्तरायं करोति, विषयोपभोगाभिलाष मुखेन तत्र तत्राभि" रमणात् / व्यापादश्चोदनायां सम्यक्प्रतिप[Ms. 53 A]त्तेः, सब्रह्मचारिभिः शिक्षास्थानेषु चोद्य 1. Ch. chapter 1 (2) of विनिश्चयसमुच्चय. 2. Ms. M. 3. Ms. ष्टी. 4. "अविद्यौष आश्रयः" is in the top margin of Ms. Ch, adds निवरणं. 6. Ms. inserts यो. 7. T. R& Ch. तत्रानभि° for तत्र तत्राभि', अनभिरति referring to प्रव्रज्या. 8. Ch. adds अन्तरायं करोति, T.चोदनायाम्, सम्यक्प्रतिपत्तेः सब्रह्म...