________________ लक्षणसमुच्चयः / 43 निर्वत्तेः / (v) प्रसवाधिपतितः स्त्रीपुरुषेन्द्रिययोः, तदाधिपत्येन गर्भावक्रमणात् / (vi) स्थानाधिपतितो जीवितेन्द्रियस्य, तद्वशेन निकायसभागस्थानात्। (vii) फलोपभोगाधिपतितः सुखदुःखसौमनस्यो पेक्षेन्द्रियाणाम्, तदधिष्ठानेनेष्टानिष्टविपाकप्रतिसंवेदनात् / (viii) लौकिकविशुध्य धिपतितः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणाम्, तैः क्लेशविष्कम्भणात् / (ix) लोकोत्तरविशुध्यधिपतितोऽनाज्ञातमाज्ञास्या मीन्द्रियस्याज्ञेन्द्रियस्याज्ञातावीन्द्रियस्य च व्यवस्थानं वेदितव्यम्, तैरनुशयसमुद्धातादिति // 642. विज्ञानाविरहिततत्सादृश्येन्द्रियविषयप्रब[Ms. 39 B]न्धोत्पत्तितः सभागं वेदितव्यम्, विज्ञानसहितस्य विज्ञानसादृश्येनेन्द्रियस्य विषयेषु प्रबन्धेनोत्पत्तेः विज्ञानवृत्तिसादृश्यार्थेन तदिन्द्रियं [Ch. 716 A] सभागमित्युच्यते / विज्ञानविरहितस्वसादृश्यप्रबन्धोत्पत्तितस्तत्सभागम्, विज्ञानेन [T. 40 A] विप्रयुक्तस्येन्द्रियस्य स्वात्मसादृश्येन प्रबन्धोत्पत्तिरिन्द्रियलक्षणसादृश्यार्थेन तत्सभागं वेदितव्यम्। रूपस्कन्धैकदेशश्चक्षुरादिपञ्चेन्द्रियलक्षणः / पञ्च . रूपोणि धात्वायतनानि चक्षुरादीनीत्येव / / 543. वेदनोत्पत्त्याश्रयरूपत इति यद्रूपमाश्रित्य वेदनोत्पद्यते तदुपात्तमित्युच्यते / रूपस्कन्धैकदेशः साधिष्ठानेन्द्रियसंगहीतः / पञ्च रूपीणि धात्वायतनानि चक्षुरादीनि / चतुर्णां चैकदेश : रूपगन्धरसस्प्रष्टव्यानामिन्द्रियाविनिर्भागी / / 844.[As. P.30] विषयग्रहणाधिपतितश्चक्षुरादीनां षण्णाम्, तदाधिपत्येन रूपाद्यालंबने चित्तचैतप्रवृत्तेः। कुलप्रबन्धाधिपतितः स्त्रीपुरुषेन्द्रिययोः, ततः पुत्रपौत्राद्यन्वयप्रवृत्तेः। शेषं यथाधिपतिप्रत्यये निर्दिष्टं तथानुगन्तव्यम् / रूपस्कन्धकदेशश्चक्षुःश्रोत्रघ्राणजिह्वाकायस्त्रोपुरु[ Ms. 40 A]षेन्द्रियलक्षणः / संस्कारस्कन्धैकदेशो जीवितश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियलक्षणः / द्वादश धातव इन्द्रियविज्ञानधातवः / षडायतनान्याध्यात्मिकानि / धर्मधात्वाय[T. 40B]तनकदेशश्च जीवितेन्द्रियं सुखादीनि श्रद्धादानि पञ्च' / / 1. Ms. वृर्तेः for वृत्तेः. 2. T. & Ch. add दौर्मनस्य. 3. Ms. ध्या. As. (G). द्धा. 4. Ms. ष्या. 5. Ms. दी. 6. Ms. रूप्याद्यालंबन° for रूपाद्यालंबने. 7. Ms. inserts श. 8. T. adds another पश्च.