________________ 42 अभिधर्मसमुच्चयभाष्यम् अ[न]लंबनविज्ञानोपलब्ध्या, यत्नमन्तरेणाविपर्यासप्रसङ्गतया, त्रिविधज्ञानानुवर्तनतया च / ततश्च ग्राहकस्याप्यपरिनिष्पत्तिः / त्रिविधं ज्ञानं वशिता'ज्ञानं विपश्यनाज्ञानं निर्विकल्पज्ञानं च / तत्र चतुर्णा कारणानामुदाहरणानि / प्रेततिर्यग्मनुष्याणां देवानां च यथार्ह [Ms. 38 B]तः / तुल्यवस्तुमनोभेदादर्थानिष्पत्तिरिष्यते // 1 // अतीतादौ तथा स्वप्ने प्रतिबिंबद्वयेऽपि च / असन्नालंबनत्वाच्च तदालंबनयोगतः // 2 // अर्थस्यार्थत्वनिष्पत्तौ ज्ञानं न स्यादकल्पकम् / तदभावाच्च बुद्धत्वप्राप्ति:वोपपद्यते // 3 // . . वोधिसत्त्वे वशिप्राप्तेऽधिमुक्तिवशाद्यतः।। तथाभावः पृथिव्यादौ ध्यायिनां चोपलभ्यते / / 4 / / निष्पन्नविचयस्येह धीमतः समाधि लाभिनः / सर्वधर्ममनस्कारे तथार्थख्यानतोऽपि च / / 5 / / ज्ञानचारेऽविकल्पे हि [T. 39 A] सर्वार्थाऽख्यानतोऽपि च / [Ch. 715 C] अर्थाभावोपगन्तव्यो विज्ञप्तेस्तदभावतः / / 6 / / (iv). कथं परिज्ञानत: / लक्षणप्रभेदस्थितीनां यथाभूतज्ञानतः / / (v). कथं प्रहाणतः / श्रावकयानमहायानाभ्यामाश्रयपरिवत्तितः / श्रावकयानाश्रयपरिवृत्त्या स्कन्धधात्वायतनालंबनेभ्यो विमोक्षो न तु तेषु विभुत्वलाभः / महायानाश्रयपरिवृत्त्यातूभयमिति / / समाप्त आलंबनप्रत्यये यथाग्रन्थं विनिश्चयः / / 641 D. (i) प्रतिष्ठाधिपतितः वायुमण्डलादीन्यम्मण्डलादीनाम्, भाजनलोकः सत्त्वलोकस्य, भूतानि भौतिकानाम, इन्द्रियाणि विज्ञानाना[Ms. 39 A]मित्येवमादि / (ii) आवेधाधिपतित: सर्वसत्त्वसाधारणं कर्म भाजनलोकस्य, पौराणं सास्रवकर्म विपाकस्येत्येवमादि। (iii) सहभावाधिपतितः चित्तं चैतसानाम्, मनस्कारः चित्तस्य, स्पर्शो वेदनाया इत्येवमादि / अतः परं द्वाविंशतिमिन्द्रियाण्यधिकृत्याधिपतिव्यवस्थानं वेदितव्यम् / तत्र (iv) [T.39 B]विषयाधिपतितः चक्षुःश्रोत्रघ्राणजिह्वाकायमनइन्द्रियाणाम्, तदाधिपत्येन * रूपाद्यभि1. Ms. has देशना with वशिता written in brackets in the margin just below the word देशना. 2. Ms. adds ar. 3. T. अयोगतः. 4. T. शम which sults the metre. 5. T. adds आवेधाधिपतिप्रत्ययः 6. Ms. दि.