________________ (xxiv ) (3) As. (p. 6) प्रश्रब्धिः कतमा / कायचित्तदौष्ठुल्यानां प्रतिप्रश्रब्धेः . कायचित्तकर्मण्यता / सर्वावरण निष्कर्षणकमिका // Asb. (p. 5) सर्वावरणनिष्कर्षणं तद्वशेनाश्रयपरिवृत्तितो द्रष्ट व्यम् / / Tb. (p, 27) प्रश्रब्धिः दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता। ... .... इयं तद्वशेनाश्रयपरावृत्तितोऽशेषक्लेशावरणनिष्कर्षण कमिका। (4) As. (p. 7) मानः कतमः। सत्कायदृष्टि सन्निश्रयेण चित्तस्यो नतिः / अगौरवदुःखोत्पत्तिसन्निश्रयदानकर्मकः // Asb. (pp 5-6) अगौरवं गुरुषु गुणवत्सु च स्तब्धता। दुःखोत्पत्तिः पुनर्भवोत्पत्तिर्वेदितव्या / / Tb. (p. 28) मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते / स पुनश्चित्तस्योन्नतिलक्षणः / ....... (p. 29) स चागौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः / अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोरप्रशृतता दुःखोत्पत्तिः पुनरत्र पुनर्भवोत्पत्तिः / (5) As (p. 8) मात्सर्यं कतमत् / लाभसत्काराध्यवसितस्य परिष्कारेषु __रागांशि[क] श्चेतस आग्रहः / असंलेखसन्निश्रयदानकर्मकम् / / Asb. (p. 7) असंलेख. मात्सर्येणानुपयुज्यमानानामप्युपकरणानां संनिचयाद्वेदितव्यः / / ___Tb. (p. 30) लाभसत्काराध्यवसितस्य जीवितोपकरणेषु रागां शिकश्चेतस आग्रहोऽपरित्यागेच्छा मात्सर्यम् / इदं च [अ]संलेखसन्निश्रयदानकर्मकं / असंलेखः पुनर्मात्सर्येणानुपयुज्य मानानामप्युपकरणानां संचयाद्वेदितव्यः / / (6) As. (p. 10) वितर्कः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पः। सा च चित्तस्यौदारिकता। विचारः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पः / सा च चित्तस्य सूक्ष्मता। Asb. (pp 8-9) चेतनां वा निश्रित्य प्रज्ञां वेत्यनभ्यूहाभ्यहा वस्थायां यथाक्रमम् / पर्येषणाकारा मनसोऽभिजल्पना वितर्कः / / प्रत्यवेक्षणाकारा मनसोऽभिजल्पनाऽनुविचार इति / / तावेव वितर्कविचारौ संबध्येते, औदारिकसूक्ष्मव्यवस्थानादनयोः / /