________________ 150 अभिधर्मसमुच्चयभाष्यम् . यथा कापदेश एवं यापदेशः / यो नोपलभते यद्येन यस्मै यतो यस्य यत्र नोपलभते यावद्विविधश्चानुपलम्भ इति / / ____201 B. [Ch. 768 C, As. P. 104] अपि खलु चत्वारो विनिश्चय मार्गा दूषकादयः / तत्र (i) दूषकः दुराख्यातस्य परपक्षस्यासाधुरयमिति प्रतिषेधकः। (ii) [T. 137 B] साधकः स्वाख्यातस्य स्वप[Ms. 142B]क्षस्य साधुरयमिति प्रतिष्ठापकः / (iii) छेदकः परेषामुत्पन्नोत्पन्नेषु संशयेषु निश्चयदायकः / (iv) बोधकस्तेष्वर्थेषु समूढानां तदर्थव्युत्पादकः / / 5202. [Ch. 771 A] (i) कृत्यानुष्ठानविनिश्चयो लौकिकानामन्योन्यं जोविकोपायादिसमर्थनप्रयोजनम् / (ii) अवतारविनिश्चयस्त्रयाणां यानानां कतमस्मिन्यानेऽवतरेयमवतारयेयं चेति विचारणा। (iii) अधिमुक्तिविनिश्चयः श्रुतमय्या प्रज्ञया यथादेशनं संप्रत्ययः / (iv) युक्तिविनिश्चयः चिन्तामय्या प्रज्ञया पौर्वापर्येणाभिप्रायपरितुलनम् / (v) सांकथ्यविनिश्चयो यथाश्रुतचिन्तितानां प्रश्नप्रतिप्रश्नक्रियायोगेनान्योन्यं धर्मसंभोगः / (vi) प्रतिवेधविनिश्चयो 4 दर्शनमार्ग: स्तेन सत्यप्रतिवेधात् / (vii) विशुद्धिविनिश्चयो-4 भावनामार्गस्तेनावशेष क्लेशविशोधनात् / (viii) अभिनिर्हारविनिश्चयो विशेषमार्गस्तेन वैशेषिकगुणाभि. निराित् / (ix) पदप्रभेदविनिश्चयो द्विकत्रिकचतुष्का दिप्रकाराभिनिरि मुखेनापर्यन्ता धर्मदेशना। (x) नाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्तथागतं ज्ञानम्, विना पूर्वाभोगेन सर्वेष्वर्थेष्वाभो[Ms. 143A]गसहकाल मसंगाप्रतिहतज्ञानदर्शनप्रवृत्तेः // $ 203. वादविनि[T. 138 A]श्चयो वादवादाधिकरणादिषु कौशल्यम् / / तत्र 6 203A. (i) सर्वं वचनं वादः / (ii) प्रकारशो लोके वादः प्रवादः / (iii) विरुद्धयोर्वादो -विवादः / (iv) अपवादो गहितो वाद: / (v) अनुकूलो वादोऽनुवादः सांकथ्यविनिश्चयः / (vi) अवगमाय वादोऽववादः / / . 1. Better यावधि for यावद्विविध. 2. T. उत्पन्नानुत्पन्नेषु. 3. Ch. explains here पञ्च विनिश्चयमार्गा:, that is, स्वभाव:, आश्रय :, विज्ञानम्, विशुद्धिः, उपाय:. 4-4. "दर्शन...विनिश्चयो" is in the bottom margin of Ms. 5. T. & Ch. अशेष. 6. Ms. adds यो. 7...7. "विवाद:-ब्राह्मणाः " (see next page)is in the bottom margin of Ms. 8. गहितो is illegible in Ms. 9. T. omits सांकथ्यविनिश्चयः.