________________ ता / सांकथ्यविनिश्चयः (v) त्रिकोटिकं यत्र तिस्र एव कोटयो व्याक्रियन्ते / तद्यथा या स्कन्धसंख्या[T. 136 B]ऽऽयतनसंख्यापि सा, या वाऽऽयतनसंख्या स्कन्धसंख्यापि सेति / त्रिकोटिकम् - स्यात् स्कन्धसंख्या नायतनसंख्या, रूपस्कन्धः / स्यादायतनसंख्या न स्कन्धसंख्या, धर्मायतनम् / स्यात् स्कन्धसंख्यायतनसंख्या च विज्ञानस्कन्धो मनआयतनं च / अनुभयसंख्यायाः स्कन्धायतनेष्वसंभव एवेति / / (vi) [Ch. 768 B] चतुष्कोटिकं यत्र चतस्रो[Ms. 141 B]ऽपि कोटयो व्याक्रियन्ते / तद्यथा यश्चक्षुरिन्द्रियेण समन्वागतः श्रोत्रेन्द्रियेणापि सः, यो वा श्रोत्रेन्द्रियेण समन्वागतश्चक्षुरिन्द्रियेणापि स इति / चतुष्कोटिकम् - प्रथमा कोटिरुत्पन्नाविहीनचक्षुबंधिरः। द्वितीयोत्पन्नाविहीनश्रोत्रोऽन्धः / तृतीयोत्पन्नाविहीनचक्षुःश्रोत्रः / चतुर्थी तानाकारान् स्थापयित्वा / / (vii) ओंकारितं यत्र प्रश्ने व्याकरणमोमिति क्रियते एवमेतदित्यभ्युपगम्यत इत्यर्थः / तद्यथा येनित्याः सर्वे ते संस्काराः, ये वा संस्काराः सर्वे तेऽनित्या इति पृष्टेन ओमिति व्याकर्तव्यम् / / (viii) प्रातिक्षेपिकं यत्र नेति प्रतिक्षिप्यते / तद्यथा स्कन्धविनिर्मुक्ताः संस्काराः कतिभिः सत्यैः संगृहीता इति / प्रातिक्षेपिकम्-न सन्ति स्कन्धविनिर्मुक्ताः संस्कारा इति / / -6201 A. संप्रश्नविनिश्चयः-अष्टाकारः कापदेशस्तद्यथा (i) को नोपलभते / प्रज्ञापारमितालाभी बोधिसत्त्वः। (ii) किं नोपलभते / ग्राह्यलक्षणं [T. 137 A] ग्राहकलक्षणं च। (iii) केन नोपलभते / प्रज्ञापारमितया। (iv) कस्मै नोपलभते / [Ms. 142 A] सर्वसत्त्वपरित्राणार्थमनुत्तरायै सम्यकसंबोधये / (v) कुतो नोपलभते / बुद्धोत्पादारागणतः सद्धर्मश्रवणतो योनिशोमनस्कारतो धर्मानुधर्मप्रतिपत्तितश्च / (vi) कस्य नोपलभते / सर्वधर्माणाम। (vii) कुत्र नोपलभते। अधिमुक्तिचर्याभूमौ यावद्दशम्यां बोधिसत्त्व भूमौ। (viii) कतिविधश्चानुपलम्भः / एकादश विधः-(a) उत्पन्नविरुद्धः, (b) अनुत्पन्नः, (c) संमुखीभूतः, (d) हेतुबलोत्पन्नः, (e) मित्रबलोत्पन्नः, (f) सर्वधर्मानुपलम्भः, (g) शून्यतानुपलम्भः, (h) सास्मि मानः, (i) निरस्मि मानः, (j) असंभृतसंभारस्य, (k) [संभृतसंभारस्य] च। एते चानुपलम्भा यत् किंचिदतीतानागतप्रत्युत्पन्न याव द्यद्वा दूरे यद्वान्तिक इत्येतदनुक्रमानुसारेण द्रष्टव्याः // 1. Ms. चे. 2. Ms. Y. 3. T. drops बोधिसत्व. 4. Ms. adds न or न्. 5. Ms. adds न or न्. 6. T. & Ch. add अध्यात्म, बहिर्धा, भौदारिक, सूक्ष्म, हीन, प्रणीत..