________________ सांकथ्यविनिश्चयः 147 पुनर्वाभ्यां कारणाभ्यामाश यतश्च मैत्रचित्ततया, प्रतिपत्तितश्चाधिगमागमोपदेशाभ्याम् // (a) चतुभिर्धर्मः समन्वागता बोधिसत्त्वाः शून्यतां भावयन्ति-अध्यात्म चित्ताविकंपनतयाधिमुक्तिप्रविचयबलाधानतया, सर्वधर्माणां यथात्म्यप्रतिवेधतः, सर्वावरण विमोक्षतश्च / [Ch. 767C] यदाश्रित्य यथा च भावयन्ति तदेतेन परिदीपितम् / किमाश्रित्य / ध्यानपारमिताम् / कथं भावयन्ति / पृथगजनमार्गेण श्रुतचिन्ताबलाधानतः शैक्षमार्गेणाशैक्षमार्गेण च / / (b) चतुभिर्धमैः समन्वागता बोधिसत्त्वाः सर्वसत्त्वे [Ms. 139B]वप्रतिहतचित्ता भवन्ति मैत्रीभावनया, प्रतिपत्त्यविकोपनतया, निमित्ताविकल्पनतया, खेदसहिष्णुतया च / अत्रापि यदाश्रित्य यथा चाप्रतिहतचित्ता भवन्ति तत्परि[T. 135A]दीपितं भवति / किमाश्रित्य / पौर्वजन्मिकी मैत्रीभावनाम् / कथमप्रतिहतचित्ता भवन्ति / मिथ्याप्रतिपत्तिस्थितेषु स्वचित्ताविकोपनतः, अपकारिष्वपकारनिमित्ताविकल्पनतः, परहितार्थ व्यायामापरिखेदतश्च // (c) चतुभिर्धर्मैः समन्वागता वोधिसत्त्वा बोधिसत्त्वानां नित्यं हितमुपसंहरन्ति-आत्मनः परि तुलनतया, सम्यगववादप्रवर्तनतया, सौरभ्यसुखसंवासनतया, पूजालाभसत्कारपरिचर्योपसंहरणतया च / अत्रापि यदाश्रित्य यथा चोपसंहरति तत्परिदोपितम् / किमाश्रित्य / निहतमानताम् / कथमुपसंहरति / यथोक्तं त्रिभिः प्रकारैर्हीनसमशिष्टानां बोधिसत्त्वानां यथाक्रमम् / / (d) चतुभिर्धमैः समन्वागता बोधिसत्त्वा निरामिषेण चित्तेन धर्मदानं संप्रकाशयन्ति-अन्तरायसुखप्रतिवेध तया, मोहलयापनयनकौशल्यतया, [Ms. 140A] नाथकरधर्मारामतया च / अत्रापि यदाश्रित्य / यथा च संप्रकाशयन्ति तत्परिदीपितम्। किमाश्रित्य। लाभसत्कारस्यान्तरायकरत्वप्रतिवे'धताम् / कथं संप्रकाशयन्ति / संदर्शनतो मूढानाम्, स[T. 135B]मादापनतः समुत्तेजनतश्च प्रमादसंङ्गा नात्मपरिभवेन वा लीनानाम्, संप्रहर्षणतः सम्यक्प्रतिपन्नानाम्, प्रकृत्यैव च धर्मारामतया। 'प्रथमस्यान्यचतुष्कः पदप्रभेदादिभिर्निर्हारो वेदितव्यः / / 1. Ms. श्र. 2. Ch. अपरि for परि. 3. Ms. वर्द्ध for वेध. __T. & Ch. add सौमनस्योपसंहरणतया. 5. Ms. व. 6. Ms. ग. 7. T. & Ch. add एवं.