________________ 146 अभिधर्मसमुच्चयभाष्यम् (xiii) प्रत्याहारमुखं यत्र सूत्रस्यकं पदं गृहीत्वा विस्तरेणार्थः प्रतिनिदिश्यते / तद्यथा षड्भिर्धर्मः समन्वागतो भिक्षुहिमवन्तमपि पर्वतराजं मुखवायुना चालयेत्, कः पुनर्वादः सवासनाया अविद्या[या]:। कतमैः षड्भिः / इह भिक्षवो भिक्षुश्चित्तस्योत्पादकुशलो भवति / इह भिक्षुर्विविक्तं कामै [Ch. 767B] - र्यावच्चतुर्थध्यानमुपसंपद्य विहरति / एवं हि भिक्षुश्चित्तस्योत्पादकुशलो भवति / (b) कथं च भिक्षुश्चित्तस्य स्थितिकुशलो भवति / इह भिक्षुरासेवनान्वयाद्यद्धा नभागीयं ध्यानं तत् स्थितिभागीयं करोति / एवं भिक्षुः स्थितिकुशलो भवति / (c) कथं च भिक्षुयुत्थानकुशलो भवति / इह भिक्षुरासेवनान्बयाद्य[T. 134A]स्थितिभागीयं ध्यानं तद्विशेषभागीयं करोति / एवं हि भिक्षुयुत्थानकुशलो भवति / (d) कथं च भिक्षुरायकु[Ms. 138B]शलो भवति / इह भिक्षुरनुत्पन्नानां कुशलानां धर्माणामिति विस्तरेण द्वे सम्यक्प्रहाणे / एवं हि भिक्षुरायकुशलो भवति / (e) कथं च भिक्षुरपायकुशलो भवति / इह हि भिक्षुरुत्पन्नानां पापकानामकुशलानामिति विस्तरेण द्वे सम्यकप्रहाणे / एवं हि भिक्षरपायकुशलो भवति / (f) कथं हि भिक्षुरुपायकुशलो भवति / इह हि भिक्षुश्छन्दसमाधिप्रधान संस्कारसमन्वागतमृद्धिपादं भावयतीति विस्तरेण चत्वार ऋद्धिपादाः / एवं हि भिक्षुरुपायकुशलो भवतीति / / ___ (xiv) अभिनिरिमुखं यत्र प्रतिपदं चतुष्कादिभिनिर्दिश्यते / तेष्वपि चतुष्कादिष्वेकैकं पदमपरैश्चतुष्कादिभिरपर्यन्तो हि निर्हारो वेदितव्यः / तद्यथा बुद्धाक्षेपसूत्रे-चत्वार इमे बोधिसत्त्वानां बोधिपरिशोध का धर्माः-शून्यताभावना, सर्वसत्त्वेष्वप्रतिहतचित्तता, वोधिसत्त्वानां नित्यं हितोपसंहरणता, निरामिषेण चित्तेन धमंदानसंप्रकाशनता चेति / चतुष्कः स्वार्थ परमार्थं चारभ्य बोधिपरिशोधनाय चतुर्विपक्षप्रतिपक्षेण वे[Ms. 139A]दितव्यः / चत्वारो विपक्षाः(a) समापत्त्यास्वादना, [T. 134B] (b) व्यापादः,, (c) मानः, (d) तृष्णा च लाभसत्कारे // __ अपरः पर्यायः-प्रथमेन धण क्लेशप्रहाणप्रतिपक्षः। शेषै-नयानपरिवर्जना परिदीपितास्त्रिभिः कारणैः बोधिचित्तेन सर्वसत्त्वोपादानतः, अवतीर्णपरिपाचनतः, अनवतीर्णावतारणतश्च // अपरः पर्यायः-प्रथमेन ज्ञानसंभारस्त्रिभिः पुण्यसंभारः परिदीपितः, उपादानपरिपाचन वतारणः, प्रत्येकं पुण्यविशेषप्रसवनतः / / 1. Ms. म. 2. T. & Ch. "dead-body" for Halgai. T. & Ch. suggest the reading शवा (dead-body) for सवा. But Asv (T). has सवासना. 3. Ms. ध्या. 4. T. & Ch. प्रहान for प्रधान. 5. Ms. धि. 6. Ms. त.