________________ [V] सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः 6 198. सप्तविधसांकथ्यविनिश्चयेऽर्थविनिश्चयः स्वभावार्थादीन् ष[Ms. 133A]डर्थानारभ्य वेदितव्यः / तत्र 6 198A [As. p. 103] स्वभाव स्त्रयः स्वभावाः (i) परिकल्पितः (ii) परतन्त्रः (iii) परिनिष्पन्नश्च / / / 198B. हेत्वर्थस्त्रयो हेतवः / [T.129A] (i) उत्पत्तिहेतुस्तथा हेतुसमनन्तरालंबनाधिपतिप्रत्ययाः, ततः सर्वसंस्कृतनिर्वर्तनात् / (iii) प्रवृत्तिहेतुस्तद्यथाऽविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवतीत्येतयाऽऽनुपूर्व्या संक्लेशव्यवदानप्रवृत्तेः / (ii) सिद्धिहेतुः प्रत्यक्षोपलम्भानुपलम्भसमाख्यानसंगृहीतः, तेन साध्यस्याप्रतीतस्यार्थस्य साधनात् // 5 198C. फलार्थः पञ्च फलानि / (i) विपाकफलं तद्यथाऽऽलयविज्ञानम् / (ii) निष्यन्दफलं तद्यथा पूर्वोत्पन्नानां कुशलादीनां धर्माणां तत्सान्तानिका उत्तरकुशलादयो धर्माः / (iii) अधिपतिफलं तद्यथा सर्वसत्त्वसाधारणं कर्माधिपत्येन भाजनलोकः / (iv) [Ch. 765C] पुरुषकारफलं तद्यथा सस्यादयः (iiv) विसंयोगफलं तद्यथाऽऽर्यमार्गेणानुशयसमुद्घातः / / 5 198D. कर्मार्थः पूर्ववद्रष्टव्यस्तद्यथा कर्मसंक्लेशनिर्देशे // 6 198E: योगार्थः पञ्च योगाः / [Ms. 133B] (i) सामूहिको योगस्तद्या गृहकाष्ठेष्टकादीनाम् / (ii) आनुबन्धिको योगस्तद्यथा[नु]शयादिहेतुः, तथाहि तस्मिन् सत्यसमुदाचरद्भिरपि क्लेशादिभिर्युक्त इत्युच्यते (iii) साम्बन्धिको योगस्तद्यथा स्वजन्मनां परस्परम् / (iv) प्रावस्थिको योगस्तद्यथाऽनुग्रहाद्याः संतानव्यवस्थाः, तथाहि तासु वर्तमानः सुखेन युक्तो [T. 129B] यावददुःखासुखेन युक्त इत्युच्यते / (v) वैकारिको योग आगन्तुकोपक्लेशादिक संमुखीभावः, तथाहि तस्मिन् सति रागादिभिः श्रद्धादिभिश्च युक्त इत्युच्यते // 6198F. वृत्त्यर्थः पञ्च वृत्तयः / (i) लक्षणवृत्तिः संस्कृतस्य त्रीणि लक्षणान्युत्पादादीनि, तैः प्रकारैर्वर्तनात् / (ii) अवस्थानवृत्तिराधेयस्याधारे 1. T. Chapter x Ch. Chapter iv of fafaraa. 2. T. & Ch. स्वभावार्थ :. 3. Ms. -मा. . 4. Ms. कं.