________________ प्राप्तिनिश्चयः 129 नाम् / [T. 118 B] तत्स्वभावानि तानि तेषां वेदितव्यानि, धर्मकायप्रभावितत्वाद्बुद्धानां भगवतामिति / बो[Ms. 122 A]धिसत्त्वानां तु तथासंदर्शनसमर्थानां समाधिप्रज्ञास्वभावानि / तदन्येषां पर्षन्मण्डलेषूपपन्नानां तत्समुत्थितविपाकस्वभावानि वेदितव्यानि // 161. चतस्रः सर्वकाराः परिशुद्धयो बुद्धानां भगवतां महाभिज्ञाप्राप्तानां च बोधिसत्त्वानाम् / तत्र (i) यथाकाममाश्रयस्योपादान स्थानपरित्यागानां समृद्धाविति यत्रेच्छति तत्रोपपत्तिग्रहणतः, तस्यां चोपपत्तावायुःसंस्कारानधिष्ठाय यावदिच्छमवस्थानतः, यदेच्छति तदायुःसंस्कारोत्सर्जनतश्च यथाक्रमम् / (ii) यथाकाममालंबनमधिकृत्य निर्माणपरिणामनज्ञानानां समद्धावि[Ch. 760 B]त्यपूर्वरूपादिनिर्माणतः, पूर्वोत्पन्नानां रूपादीनां सुवर्णादित्वेन परिणामतः, सर्वप्रकारावगमनतश्च यथाक्रमम् / (iii) यथाकामं समाधिमुखवशत्तिसमृद्धाविति प्रतिक्षणं यथेष्टमपरिमितसमाध्यन्तरसमापत्तये। (iv) यथाकामं धारणीमुखसंधारणसमृद्धा. विति द्वाचत्वारिंशतोऽक्षराणामन्यतमाक्षरमनसिकारे तदादिसर्वधर्मपर्यायाभिलपनसामर्थ्यप्रतिलम्भायेत्यर्थः / / / 162. [As. P. 98] दश बलानि-स्थाना[T. 119 A]स्थानज्ञानबलं कर्मस्वकज्ञानवलं ध्या[ Ms. 122 B] नविमोक्षसमाधिसमापत्तिज्ञानवलमिन्द्रियपरापरज्ञानबलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञानबलं पर्वनिवासानस्मतिज्ञानबलं व्यत्यपपादज्ञानबलमास्रवक्षयज्ञानबलं च। तत्र स्थानास्थानज्ञानबलं ध्यानं निश्रित्य सर्वप्रकारहेत्वहेतुज्ञानासंगाप्रतिहतसंमुखीभावे समाध्यादयः / एवं कर्मस्वकज्ञानबलादिषु सर्वाकारकर्मस्वकताज्ञानासंगाप्रतिहतसंमुखीभाव' इति योजयितव्यम् // .6 163. [Ch. 760 C] चत्वारि वैशारद्यानि - (i) सम्यक्संबुद्धस्य वत मे सत इमे ते धर्मा अनभिसंबुद्धा इत्यत्र मां कश्चिच्छ्रमणो वा' देवो वा मारो वा ब्रह्मा वा सहधर्मेण चोदयेद्वा स्मारयेद्वा निमित्तमपि न समनुपश्याम्येतच्च निमित्त [म] समनुपश्यन् क्षेमप्राप्तश्च वैशारद्यप्राप्तश्चोदारमार्षभं स्थानं प्रजानामि, ब्रह्मचर्य प्रवर्तयामि, परिषदि सम्यक् सिंहनादं नदामि। (ii) क्षोणास्रवस्य वत मे सत इमे आस्रवा अपरिक्षीणा इति / (iii) [Ch. 761 A] ये वा पुनर्मे श्रावका[णा]मन्तरायिका धर्मा आख्याताः तान् प्रतिषेवमानस्य नालमन्त 1. Ch. प्रतत्स्वभावानि. 2. Ms. ने. 3. T. adds समाध्यादय:. 4. Ch. explains here other eight kinds of jnanabala. 5. T. & Ch. have ब्राह्मणो वा. Cf. Spluta. P. 616. 6. T. & Ch. चक्र' foro चयं. 7. Ms. न.