________________ 128 अभिधर्मसमुच्चयभाष्यम् मात्मनि क्लेश'समुदाचारमधिकृत्यानागतवृत्तान्तं विहारगत एव प्रणिधिज्ञानबलेनावलोक्य तथा त [Ms. 121 A]त्समीपमुपसंक्रामति न वा यथा ते तत्रानुनयप्रतिघेामात्सर्या[T. 117 B]दिकं क्लेशोपवलेशसरणं नोत्पादयन्ति / अत इदमुच्यतेऽरणा ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धाविति विस्तरः / / . 6 157. प्रणिधिज्ञानं तल्लाभी यद्यदेव त्रैयध्विकादिकज्ञेयवृत्तान्तं ज्ञातुकामो भवति, तत्र तत्र मानसं प्रणिधायेदं जानीयामिति ध्यानं समापद्यते, ततो व्युत्थितस्य तत्प्रणिधानं समृध्यति, तज्ज्ञेयं जानातीत्यर्थः / / 6158. (i) धर्मप्रतिसंवित पर्यायेषु, तद्यथाऽविद्यादीनारभ्याज्ञानमदर्शनमनभिसमय इत्येवमादिष्व[Gh. 759 C]व्याघातसमृद्धौ यः समाधिरिति विस्तरः। (ii) अर्थप्रतिसंवित्स्वसामान्यलक्षणे धर्माणाम्, अर्थान्तराद्यभिप्राये [As. Y. 97j चाव्याघातसमृद्धाविति विस्तरः / (iii) निरुक्तिप्रतिसंविज्जनपदभाषायामिति प्रतिविषयं यथास्वमन्योन्यसंज्ञान्तरानुव्यवहारे, धर्मनिर्वचने चेति तद्यथा लुज्यते प्रलुज्यते तस्माल्लोकः, रूप्यते तस्माद्रूप इत्येवमादिके / (iv) प्रतिभानप्रतिसंविद्धर्मप्रभेदेष्विति द्रव्यसन्तः प्रज्ञप्तिसन्तः संवृतिसन्तः परमार्थसन्त इत्येवमादिषु // . $ 159. (i) [T. 118A] ऋद्धयभिज्ञा [Ms. 121 B] विचिद्धिविकुवितसमृद्धाविति तद्यथा एको भूत्वा बहुधा भवतीत्येवमादौ / (ii) विचित्राणां शब्दानामनुश्रवसमृद्धाविति दिव्यमानुष्यकादीनाम् / (iii) परसत्त्वेषु चित्तचरितप्रवेशसमृद्धाविति सरागादिचित्तप्रचारयथाभूतज्ञानसमृद्धावित्यर्थः / (iv) [Ch. 760 Aj पूर्वान्तचर्याया अनुस्मरणसमृद्धावित्यतीतं जन्मपरंपरामारभ्य नामजातिगोत्रादिप्रकारवृत्ताया इत्यर्थः / (v) च्युत्युत्पादाभिज्ञा दिव्येन चक्षुषा सत्त्वानां च्यवमानानामुपपद्यमानानां सुवर्णानां दुर्वर्णानां सुगतिमपि गच्छतां दुर्गति मप्यपरान्तमारभ्य च्यत्युपपादसंदर्शनसमद्धौ समाध्यादयः / (vi) आस्रवक्षयज्ञानसमृद्धाविति येनोपायेनास्रवाः परिक्षोयन्ते, यश्चैषां परिक्षयस्तज्ज्ञाननिष्पत्तिनिमित्तमित्यर्थः / / 6 160. लक्षणानुव्यञ्जनानि यत्समाधिप्रज्ञाधिपत्येन बुद्धा भगवन्तो द्वात्रिंशता' लक्षणैरशीत्यानुव्यञ्जनः विभ्राजमानं रूपकायं संदर्शयन्ति विनेया 1. T, adds अ. 2. T. & Ch. व्युत्थाय. 3. Ms. व. 4. Ms. त्य. 5. Ms. द्धयो. 6. Ms. cat for at. 7. T. & Ch.add महापुरुष,