________________ 32 द्रावितमिथ्यात्वतया मृदुभूतभावस्य, तथाहि-उपपद्यते तदा तद्विचारेणास्य प्रीतिः शोचति प्रागविचारकमात्मानं गृह्णाति मार्गोपदेशकं बन्धुबुद्धया५६ बहु मन्यते सद्धर्मनिरतचित्तांश्चान्यलोकान् सद्भावनयेति, तदियता प्रपञ्चेन लघुकर्मणः सन्मार्गाभ्यर्णवर्तिनोऽभिन्नकर्मग्रन्थेऽभिन्नकर्मग्रन्थेर्वा पुरस्कृतसम्यग्दर्शनस्य कियन्तमपि कालं भद्रकभावे वर्तमानस्यास्य जीवस्य यो व्यतिकरो भवति स व्यावर्णितः / तदनन्तरमिदानीं सकलकल्याणाक्षेपकारणभूतां परमेश्वरावलोकनां प्राप्नुवतोऽस्य यः प्र(त्स्यायं) पद्यते,५७ तत्र योऽसौ कथानकोक्तो रोरो 'लब्धचेतनो यावदित्थं विप्रकीर्ण चिन्तयति तावद् वृत्तान्तान्तरमपरं महाराजावलोकनलक्षणमापतितं' तथेहापि यदाऽयं जीवः सञ्जातस्वकर्मलाघवतया सन्मार्गाभिमुखो भद्रकभावे वर्तते तदाऽस्य योग्यतया परमात्मावलोकनलक्षणोऽयमपरो वृत्तान्तः संपद्यते५८ / तत्र 'योऽसौ सुन्दरे प्रासादशिखरे सप्तमे भूमिकातले निविष्टमूर्तिरधस्ताद्वर्तमानं तददृष्टमूलपर्यन्तं नगरं समस्तं समस्तव्यापारकलापोपेतं सकलकालं समन्तानिरीक्षमाणस्तस्मादहिरपि५९ सर्वत्राप्रतिहतदर्शनशक्तिः सततानन्दो लीलया ललमानो महानरेन्द्रो दर्शितः' स इह निष्कलावस्थायां वर्तमानः परमात्मा भगवान् सर्वज्ञो विज्ञेयः, स एव यतो मर्त्यलोकापेक्षया उपयुपरिस्थायिन्यो भूमिकाकल्पाः सप्तरजवः तदात्मको यो लोकप्रासादस्तच्छिखरे वर्त्तते, स एव हि परमेश्वरो युगपदमुं समस्तसंसारविस्तारं विचित्रनगरव्यापाराकारमलोकाकाशं च तदहिर्भागकल्पं केवलालोकेन करतलगतामलकन्यायेनावलोकयति, स एव चानन्तवीर्यसुखपरिपूर्णतया सततानन्दो लीलया ललते नापरो, भवगतमध्यपतितजन्तुलीलाललनस्य परमार्थतो विडम्बनारुपत्वात यथा च स कथानकोक्तः तेन महाराजेन महारोगभराक्रान्ततया गाढवीभत्सदर्शन इतिकत्वा करुणया विशेषेणावलोकित इत्युक्तम्' तदत्रैवं द्रष्टव्यं-यदाऽयमात्मा निजभव्यतादिपरिपाकवशादेतावतीं कोटिमध्यारूढो भवति तदाऽस्य भवत्येव भगवदनुग्रहः, न तद्व्यतिरेकेण यतो मार्गानुसारिता संपद्यते. तदनुग्रहेणैव भवति भावतो भगवति बहुमानो नान्यथा, स्वकर्मक्षयोपशमादीनां शेषहेतूनामप्रधानत्वात. ततोऽयमात्मा तस्यामवस्थायां वर्तमानोऽमुमर्थमाकलय्य भगवता विशेषेणावलोकित इत्युच्यते, स एवं परमेश्वरोऽचिन्त्यशक्तियुक्ततया परमार्थकरणकतानतया चास्य जीवस्य मोक्षमार्गप्रवृत्तेः परमो हेतरित्यक्त भवति, समस्तजगदनुग्रहप्रवणं हि भगवतो६० निष्कलमपि रूपमिति परिभावनीयं, केवलं तथापि तत जीवभव्यतां कर्मकालस्वभावनियत्यादिकं च सहकारिकारणकलापमवेक्ष्य जगदनुग्रहे व्याप्रियते, तेन न योगपद्येन समस्तप्राणिनां संसारोत्तार इति, आलोचनीयमेतदागमानुसारेणेति, तस्माद्भवत्येव भाविकल्याणस्य भद्रकभावे वर्तमानस्यास्य जीवस्य भगवदवलोकना / यथा च 'तां महाराजदृष्टिं तत्र रोरे निपतन्तीं धर्मबोधकराभिधानो महानसनियको निरीक्षितवानित्युक्तं' तथा परमेश्वरावलोकनां मज्जीवे भवन्तीं धर्मबोधकरणशीलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म, तथाहि--सद्धयानबलेन विमलीभूतात्मानः परहितैकनिरतचित्ता भगवन्तो ये योगिनः ते पश्यन्त्येव देशकालव्यवहितानामपि जन्तनां उग्रस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनाया योग्यतां, पुरोवत्तिनां पुनः प्राणिनां 56 अन्यदर्शनमार्गादेशक वञ्चकबु. 57 संप० प्र. 58 संपत्स्पते प्र. 59 क्षणं कुर्वाणः प्र.६० भावतो पा.